SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ अनुसन्धान-५८ अंशान्तरप्रतिक्षेपी वस्त्वंशग्राही नयाभासः ॥३.२.१॥ सर्वथा धर्मद्वयादीनां पार्थक्याभ्युपगन्ता नैगमाभासः कणभक्षादिदर्शनम् ॥३.२.२।। विशेषप्रतिक्षेपी सामान्यमात्रग्राही सङ्ग्रहाभासः ॥३.२.३॥ सत्प्रधानाद्यद्वैतदर्शनं परो द्रव्यत्वाद्येकान्तवादस्त्वपरः ॥३.२.४॥ अपारमार्थिकद्रव्यपर्यायविभागाभ्युपगन्ता व्यवहाराभासो लोकायतदर्शनम् ॥३.२.५।। सर्वथा द्रव्यप्रतिक्षेपी क्षणिकपर्यायाभ्युपगन्ता ऋजुसूत्राभासो बौद्धदर्शनम् ॥३.२.६।। कालादिभेदतो ध्वनेस्सर्वथाऽर्थभेदाभ्युपगन्ता शब्दाभासः ॥३.२.७।। व्युत्पत्तिभेदेन पर्यायशब्दानां सर्वथाऽर्थभेदाभ्युपगन्ता समभिरूढाभासः ॥३.२.८।। शब्दानां स्वप्रवृत्तिनिमित्तभूतक्रिययाऽनालिङ्गितस्य वाच्यत्वप्रतिक्षेपी तदालिङ्गित स्य(स्यैव) वाच्यत्वाभ्युपगन्ता एवम्भूताभासः ॥३.२.९।। आनन्तर्य-पारम्पर्याभ्यां नयस्य फलमपि द्विधा ॥३.२.१०।। आद्यं वस्त्वंशाज्ञाननिवृत्तिः, द्वितीयं तदुपादानहानोपेक्षाबुद्धयः ॥३.२.११॥ तन्नयतो भिन्नमभिन्नं च, तत्त्वान्यथानुपपत्तेः ॥३.२.१२॥ आद्यास्त्रयः सविपर्ययमतिश्रुतावधि-मनःपर्यवकेवलज्ञानाश्रयिणः ॥३.२.१३।। ऋजुसूत्रस्तु मतिवर्षोक्ताश्रयी ॥३.२.१४।। शब्दादयस्तु त्रयः श्रुतज्ञानकेवलज्ञानाश्रयिण इति ॥३.२.१५।। ॥ इति तृतीयाध्याये द्वितीयः पादः ॥ शब्दार्थरचनाविशेषो निक्षेपः ॥३.३.१।। अप्रस्तुतार्थनिषेधः प्रस्तुतार्थोपपादनं चाऽस्य फलम् ॥३.३.२॥ एतेनाऽनुयोगाधिगमोपायत्वं व्याख्यातम् ॥३.३.३।। स नाम-स्थापना-द्रव्य-भावभेदतश्चतुर्धा ॥३.३.४।। प्रकृतार्थनिरपेक्षो नामार्थान्यतरपरिणामो नामनिक्षेपः ॥३.३.५।। भावाकारस्थापना स्थापनानिक्षेपः ॥३.३.६।। स सद्भूता-ऽसद्भूताकारस्थापनाभेदाद् द्विधा ॥३.३.७।। आद्यो जिनप्रतिमादिः, द्वितीयोऽक्षादौ स्थापनाचार्यादिः ॥३.३.८॥ भूतभाविभावकारणं द्रव्यनिक्षेपः ॥३.३.९।। विवक्षितक्रियापरिणतिमान् भावनिक्षेपः ॥३.३.१०।। नयसमुदायवादे चतुर्णामशेषव्यापित्वम् ॥३.३.११।।
SR No.229486
Book TitleAnekant Tattva Mimansa
Original Sutra AuthorN/A
AuthorTrailokyamandanvijay
PublisherZZ_Anusandhan
Publication Year
Total Pages18
LanguageHindi
ClassificationArticle & 0_not_categorized
File Size92 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy