________________
अनुसंधान-१६ • 218 यकारे 'यथावद्धर्मप्रतिवेधशब्दः। रकारे रत्यरतिपरमार्थरतिशब्दः । लकारे लताछेदनशब्दः । वकारे वरयानशब्दः । शकारे शमथविपश्यनाशब्दः । षकारे षडायतननिग्रहणाभिज्ञज्ञानावाप्तिशब्दः । सकारे सर्वज्ञज्ञानाभिसंबोधनशब्दः । हकारे हतक्लेशविरागशब्दः । क्षकारे परिकीर्त्यमाने क्षणपर्यन्ताभिलाध्यसर्वधर्मशब्दो निश्चरति स्म ॥
इति हि भिक्षवस्तेषां दारकाणां मातृकां वाचयतां बोधिसत्त्वानुभावेनैव प्रमुखान्यसंख्येयानि धर्ममुखशतसहस्राणि निश्चरन्ति स्म ।।
तदानुपूर्वेण बोधिसत्त्वेन लिपिशालास्थितेन द्वात्रिंशद्दारकसहस्राणि परिपाचितान्यभूवन् । अनुत्तरायां सम्यक्संबोधौ चित्तान्युत्पादितानि द्वात्रिंशद्दारिकासहस्राणि । अयं हेतुरयं प्रत्ययो यच्छिक्षितोऽपि बोधिसत्त्वो लिपिशालामुपागच्छति स्म ॥
१. R प्रज्ञोपायं. २. R शिक्षयिष्यामि. ३. R "वैपुल्य' for "वैकल्य'. ४. R ऐरपथः for ऐर्यापथः. ५. R ध्वजवर' for "ध्वजबल'. ६. R तथासंभेद for तथता”. ७. R परिज्ञान' for परिज्ञा. ८. R भवतिभव for भवविभव'. ९. R प्रतिषेध for “प्रतिवेध'. १०. R. निग्रहषडभिज्ञ for "निग्रहणाभिज्ञ". ११. "भिलाष' for "भिलाप्य'.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org