________________
December - 2003
१११
णकारमन्त्राक्षरजप्तनामा, णमानवव्राजसभाजितांघ्रिः१७ । णमा प्रदद्यात् सकलां गणेशो,
णदायक:१९ शान्तिविधायकश्च ॥६॥ ततसुदीधितिराऽऽशु तमस्तति, तरणिरेष विनाशयतु प्रगे। तरुणसत्किरणैररुणैररं, तमसनाशकर:२० कृतपद्ममुत्१ ॥७
थं२ देहि सद्यो लसदुत्पलानां, थट्टै:२३ कलानां कलितो दिनेशात् । थे चोदयस्योदितत:२४ सुकान्ते,
थोरोहिणीनायक चन्द्रमस्त्वम् ॥८॥ दिक्पालमुख्यो दयितो जनानां, दक्षक्षमानाथमन:प्रमोदी । दिष्टिं५ विशिष्टां हि सुभिक्षकारी, दद्यात्तमां सोमसुदैवतोऽसौ ॥९॥
धनपतिः सुरनायकसेवको, धवलरूप्यमहीध्रकृताश्रयः । धनद एव समृद्धिविधायको, धरतु शर्मा च यच्छतु सुश्रियम् ॥१०॥
१६. योग्य ।
१७. सेवित् । १८. स्पष्टलक्ष्मीम् ।
१९. ज्ञानदाता । २०. अन्धकारनाशकरः ।
२१. हर्षः । २२. भीत्रणम् । ?
२३. सङ्घः । २४. किम्भूताद्धि थेचोदयस्य उदयस्य थे पर्वते-उदयाचले इत्यर्थः उदिततः उदिता
इत्यर्थः । २५. आनन्दम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org