________________
अनुसंधान-१५ • 39 स्वामित्रशोकमलगर्ददघव्यपाये संसारदुःखकमलालाघयुतं रिपूणाम् । निर्माशने कमलघोषसमान घोपं भावामये कमलहारिसमं समात्रम् ॥११॥ जन्तोस्तपःस्फुरदशोकमलप्रणाशे ताम्रस्य चम्पकमलन्दसुगन्धिवस्त्रः । उल्लास्यनूकमलशंकमुपास्तिकारी य: स्यात्तव स्वकमलाञ्छनमातनोति ॥१२॥ हन्मेध्यताक्कमलवत्प्रतिपक्षमात्राधिक्यादलीकमलसि प्रशमात्प्रहन्तुम् । उल्लास्यलोकमलवत्तनुसाधुनम्यः क्षिप्तव्यलोकमलवन् स्थिरतागुणेन ॥१३॥ दुष्टामचन्द्रकमलननुवेलमीशस्पष्टं सिताकमलपातकतापलोपे । सदोस्तनीकमलतुल्यवचःप्रपञ्चः निर्मोघमाघकमलः सदरिष्टकुष्टे ॥१४॥ पादावनम्रकमलाङ्गमुखग्रहौघ: साधूभवत्कमलभाजनधारिविप्रः । . विध्वस्तदुःकमलसम्भवभीतिरीतिः प्रत्यूहसञ्चयतमः कमलस्वभावः ॥१५॥ त्यक्तव्यलोकमलसे भुजगेश्वरे च राशीश्च मध्यकमलप्रमुखान्वदन्तम् । संवद्धिताधिकमलादिजनस्यधन्यो यस्त्वत्पदान्तिकमलार्यत एव भक्त्या ॥१६॥ अम्बोदरान्तरतटाकेमलालशान्तिवल्लीबैलाङ्गकमलङ्गमरङ्गतुल्यम् । पूर्णाङ्गितर्कमलवैकलितं कराब्जे सम्यग्वितर्कमलयप्रियनादमीडे ॥१७॥ निस्तीर्णपातकमलादिह संयमं य: संसारशोषकमलोचकवैरिवारः । पङ्केरुहाङ्कमलयोमुदमाप्ययद्वद्यान्तोश तावकमलम्बरिणो मतं तत् ॥१८॥ १.अलगई: सर्पविशेषः, २.संसारदुःखमेव कं जलं मवति बध्नति(मनाति) कमव् - व्योरिति वलोपः, ३.सामर्थ्य, ४.कामलो वसन्तः वसन्तघोषः कोकिलः, ५. कामलो रोग: रोगहारी वैद्यः, ६. पारद, ७.किट्ट, ८.मरन्दो मकरन्दः, ९.उल्लासकृत्, १०.अनूकं शीलं तत्र मठति निवसति स्थिरीभवति इति अनूकमट-शीलवान्पुरुषः, ११. पुण्यता, १२.अर्कः स्फटिक: मालवत्-मालुः स्त्री तद्वदाचरन्तः प्रतिपक्षा यस्य, १३.अवितथ, १४.अड उद्यमे, १५.भाल, १६. मालुः पत्रवल्ली कृत्वा तथा तद्वदाचरन्ती तनुर्येषां, १७.अप्रियः १८.मरुः पर्वतः १९.चन्द्रकमल-कर्पूरपानीयं यत्कर्णरोगनाशयति, २०.साकरवाणी, २१.द्राक्षारसः, २२.कमलं जलं जलयोरव्यभिचारित्वात् कमलो रसः, २३.निर्मोघं सफलं माघपानीयं माहवाणी इति, २३अ. प्रसिद्धं शत्रुञ्जयनोरं कुष्टहारित्वात्तत्सदृश इत्यर्थः २४. कमलवत् अङ्गं यस्य स कमलाङ्गो रक्ताङ्गो मङ्गल इत्यर्थः, २५. ताम्रभाजन, २६. कमल इव कमल: वृत्तत्वात्-रक्तत्वात्-तत्संभवो यमः, २७. कमल इव कमल: सूर्य : २८.व्यलीकं-अलीकं, २९.अलसीडं, ३०.नागराजे च, ३१.मध्ये को यत्र ईदृशो मलशब्द: मकर इति स्यात्, ३२. कमल श्रेष्ठी, ३३. पाश्र्वं, ३४.अरार्यते-प्राप्नोति, ३५.मराल, ३६. वसन्त, ३७.अरङ्ग, ३८. तर्को वाञ्छा, ३९.अरवत्-चक्र, ४०. वनप्रिय: कोकिलः, ४१.अरोचको दीप्तिमान्, ४२.कमलोत्सङ्गं प्राप्य यथाऽलयोमुदं यान्ति, ४३.अडम्बरिणः संसारप्रपञ्च मुक्त्वा तव मतं प्राप्य मुदं यान्ति ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org