________________
डिसेम्बर-२००९ में क्षमा चाहता हूँ।
भक्तामरस्तोत्र-पादपूर्ति आदिनाथ-स्तोत्रम् ।
नमेन्द्रचन्द्र ! कृतभद्र ! जिनेन्द्र ! चन्द्र ! ज्ञानात्मदर्शपरिदृष्टविशिष्टविश्व । त्वन्मूर्त्तिरर्तिहरणी तरणी मनोज्ञे वालम्बनं भवजले पततां जनानाम् ॥१॥ गृह्णाति यज्जगति गारुडिको हि रत्नं, तन्मन्त्र-तन्त्रमहिमैव बुधो न शक्तः । स्तोतुं हि यं यदबुधस्तदसीय शक्तिः, स्तोष्ये किलाहमपि तं प्रथमं जिनेन्द्रम् ॥२॥ त्वां संस्मरंतहमरंकरभीप्सितस्य, दूरं चिरं परिहरामि हरादिदेवान् । हित्वा मणिं करगतामुपलं हि विज्ञ-मन्य क इच्छति जनः सहसा ग्रहीतुम् ॥३॥ ध्यानानुकूलपवनं गुणराशिपात्रं, त्वामद्भुतं भुवि विना जिन ! यानपात्रम् । मिथ्यात्वमत्स्यभवनं भवरूपमेनं, को वा तरीतुमलमम्बुनिधिं भुजाभ्याम् ॥४॥ क्षुत्क्षाम-कुक्षि-तृषिता-तप-शीत-वात-दुःखीकृताद्भुततनोर्मरुदेविमाता। अद्याप्युवाच भरतादिभवाञ्जनस्य, नाभ्येति किं निजशिशोः परिपालनार्थम् ॥५॥ मुक्तिप्रदा भवति देव ! तवैव भक्तिर्नान्यस्य देवनिकरस्य कदाचनापि । युक्तं यतः सुरभिरेव न रौद्रमारास्तच्चारुचूतकलिकानिकरैकहेतुः ॥६॥ गाङ्गेयगात्रनृतमस्तृणसत्रदात्रं त्वन्नाममात्र वसतो ? गुणरत्नपात्रम् । मिथ्यात्व याति विलयं मम हृद्विलीनं, सूर्यांशुभिन्नमिव शार्वरमन्धकारम् ।।७।। नेत्रामृते भवति भाग्यबलेन दृष्टे, हर्षप्रकर्षवशतस्तव भक्तिभाजाम् । वक्षःस्थलस्थित उतेक्षणतश्च्युतोसौ मुक्ताफलद्युतिमुपैति ननूदबिन्दुः ॥८॥ श्रीनाभिनन्दन ! तवाननलोकनेन, नित्यं भवन्ति नयनानि विकस्वराणि । भव्यात्मनामिव दिवाकरदर्शनेन, पद्माकरेषु जलजानि विकाशभाञ्जि ।।९।। त्वत्पादपद्मशरणानुगतान्नरांस्त्वं, संसारसिन्धुपतिपारगतान् करोषि । निःपाप ! पारगत ! यच्च स एव धन्यो, भूत्याश्रितं य इह नात्मसमं करोति ॥१०॥ युक्तं त्वदुक्तवचनानि निशम्य सम्यक्, नो रोचते किमपि देव ! कुदेववाक्यम् । पीयूषपानमसमानमहो विधाय, क्षारं जलं जलनिधेरसितुं क इच्छेत् ॥११॥ शम्भुः स्वकीयललनाललिताङ्गभागो, विष्णुर्गदासहितपाणिरितीव देव ! । प्रद्वेषरागरहितोऽसि जिन ! त्वमेव, यत्ते समानमपरं न हि रूपमस्ति ॥१२॥ तेजस्विनं जिन ! सदेह भवन्तमेव, मन्येस्तमेति सवितापि दिवावसानम् ।