________________
16
श्रीजिनपतिसूरिग्रथितं
उज्जयन्तालङ्कार- नेमिजिनस्तोत्रम्
सुगृहीतनामधेयैः समुपचितनिचितभागधेयैः स्वमतिप्रतिभाप्रतिहतसुरगुरुभिर्गुणगणगुरुभिः प्रवरनव्यकाव्यप्रबन्धमधुमधुरसुधारसपानप्रमोदितसूरिभूरिभिः श्रीयादवकुलतिलकस्य समुद्रविजयाङ्गजस्य निष्पिष्टदुष्टाङ्गजस्य समस्तत्रिभुवनसौभाग्यभाग्यलक्ष्मीसनाथस्य श्रीनेमिनाथस्य स्तुतिश्चक्रे । तद् यथा
व्याख्यास्तु यस्य रदनद्युतयोऽसिताङ्ग
भाशारिता विसृमरा हरिदङ्गनानाम् ।
वक्ष:सुनीलमणिखण्डविमिश्रमुक्ता
यस्याङ्गनिर्यदतिसान्द्रविसारिनील
कान्तिप्रतानपिहिताः ककुभो विभाव्य । जन्मोत्सवस्य दिवसे नववारिवाह
सन्दोहशङ्कधियो ननृतुर्मयूराः ॥ २॥
दामश्रियं विदधिरेऽवतु वः स नेमिः ||१||
श्रीमच्चतुर्वदनभाषितवाङ्मयाब्धिः, पादोपगूहनपवित्रितराजहंसः ।
पद्मोद्भवस्त्रिजगतीभवकृत्स्वयम्भू
Jain Education International
र्यो दिद्युते नियमितस्फुरदक्षमालः ||३||
कृत्स्नागसन्धिसुभगां प्रणिधिप्रधानां,
सद्विग्रहां मृदुकरां वरदन्तियानाम् । उत्सृज्य राज्यकमलां गुणराजमानां,
राजीमतीं च दयितां जगृहे व्रतं यः ॥ ४ ॥
भामानिलीनहृदयः सहितो बलेन,
सद्धर्मचक्रमथितप्रतिपन्थिसार्थः ।
गोपालपूगकृतसंस्तवनोर्व्यते यो,
अनुसन्धान- ३१
गोमण्डलं जडविपत्तित उद्दधार ||५||
For Private & Personal Use Only
www.jainelibrary.org