________________
अनुसन्धान - ५४ श्री हेमचन्द्राचार्यविशेषांक भाग - २
श्रीहेमचन्द्रसूरिरचितः लेखरत्नाकरः ॥ श्रीशारदां हृदि ध्यात्वा हेमचन्द्रेण सूरिणा । लेखरत्नाकरो नाम संक्षेपेण विधीयते ॥
पञ्च सप्त नवमांशान् वृद्ध तुल्य लघून् प्रति । आदौ त्यक्त्वा लिखेल्लेखं पार्श्वे तस्य दशांशकम् ॥२॥ श्रीकारं प्रथमं दद्याद् ग्रामं शाखापुरं विना । नामादि च गुरोर्मन्त्रि- देवभूपादिकारणम् ॥३॥ राज्ञोऽमात्यसुतस्त्रीणां पूज्यानां च विशेषतः । बहुलक्ष्मीतपोविद्या – महत्त्वादिविराजिनाम् ॥४॥ स्थानं नाम च वृद्धानां तुल्यानां प्रथमं लिखेत् । विपरीतं लघूनां चा ऽभीष्टनाम न खण्डयेत् ॥५॥ स्वस्थाने पञ्चमीं दद्यात् परस्थाने च सप्तमीम् । आत्मनः प्रथमां दद्याद् द्वितीयामपरस्य च ॥६॥ कुर्याद्विपटमालापा’-वधि ( ? ) स्वस्तिसमन्वितम् । हस्तेन नार्पयेल्लेखं बद्ध्वा सूत्रेण नो पुनः ॥७॥ षड् गुरोः स्वामिनः पञ्च चत्वारो द्विषतां मता: । त्रयः सख्युर्द्वी भार्यायाः श्रीकारः पुत्रशिष्ययोः ॥८॥ पुत्रमित्रसुहत्तौत- स्वामिसद्गुरुदैवतैः ।
एकाद्येकोत्तरं विन्द्यात् श्रीकाराः सप्त सूरिभिः ||९|| महत्पूज्यचिरंजीवि-परमं देशकारिणः ।
सेव्यः सविनयः पूर्वं नाम्नामेतानि योजयेत् ॥१०॥ ( ? ) अग्रैकादशीयोग्येन चरणान् वचन: पुन: (?) ।
स्थानात् ग्रामपुरं दुर्ग: नगरं स्थानपत्तनम् ॥११॥ वन्दना द्वादशावर्त्त-वचना विनियोजयेत् ।
केवलं कुशलं प्रस्ता (?) गाढालिङ्गनतः पुनः ॥१२॥
१. त्याज्यं प्रतौ पाठां. टि. । ३. पुत्रभृत्यसुहृद्वैरि० प्रतौ पाठां टि. ॥
२. ० मालायां षधि० प्रतौ पाठां० टि. ।