SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ ५२ संप्राप्यातिशयं कुतोऽपि निखिलत्रैलोक्यविस्मापकं कुम्भोद्भूरथवा पपौ न जलधीन् सप्ताधि किं हेलया ? ।। ४ ।। निःश्वासोद्गतगन्धबन्धुरतया सोत्कण्ठबद्धस्पृहा धावन्ती मधुपालिरास्यकमले ब्राह्मि ! त्वया कौतुकात् । नूनं या करपल्लवेन विधृता प्राप्य स्मितैः शुभ्रतां ब्रूतेऽसौ कथमत्र मूढहृदयस्तामक्षमालां जनः ॥ ५॥ एतद्भारति ! पङ्कजं तव कराम्भोजे दधन् मित्रतां यत्पश्यामि हरिप्रियैकसदनं सच्छाययालङ्कृतम् । तन्मन्येऽस्मि करोषि यत्र मनुजे वासं प्रसन्ना सती तत्राद्यापि रुषा विषण्णहृदया धत्ते न लक्ष्मीः स्थितिम् ॥ ६ ॥ पाणिः सूर्यसमस्तम: परिभवी ते वाणि! यस्य क्षणं साम्मुख्यं भजते स्म नेत्रनलिनस्यानन्दमुद्रां दधत् । तस्याशाः सकलाधिक्श्चरदशां संप्रापयन्नन्वहं धत्तां मा वरदाभिधां कथमसावुत्तानलीलां वहन् ॥ ७ ॥ दोषाश्लेषजुषोपि विश्वमखिलं प्रीतिं नयन्तः परां राकाचन्द्रगभस्तयो जडतया सन्तप्तपद्यश्रियः । चञ्चत्पुस्तककैतवादहमिदं शङ्के गिरामीश्वरि ! पिण्डीभूय जडत्वसङ्गहतये भेजुस्त्वदीयं करम् ॥ ८ ॥ इत्थं निर्यदमन्दभूरिपुलकः प्रीतिप्रसन्नाशयः पाण्यम्भोजयुगं ललाटसरिति प्राप्य स्थितस्ते पुरः । देवि ! प्रार्थयते वरं प्रविदधच्छ्रीरत्नसूरिः स्तवं विश्वं क्षिप्तसमस्तमोहगहनं सर्व्वत्र भूयादिति ॥ ९ ॥ छः ॥ 203 अनुसन्धान ४४ (२४) श्री भरुयच्छ मंडण मुनिसुव्रतस्तवनम् तिहुयणजणमणलोयणपंकेरुहवणवियासणदिणिंद ! | भरुयच्छनयरमण्डण ! जय जय मुणिसुव्वयजिदि ॥ १ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.229312
Book TitleStotratmaka tatha Updeshatmaka Chotris Laghu Krutiono Samucchaya
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherZZ_Anusandhan
Publication Year
Total Pages66
LanguageHindi
ClassificationArticle & 0_not_categorized
File Size895 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy