SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ १६ भावानां तत्त्वतः कर्त्तुं न शक्तश्चेत्तथाप्यहम् | रत्न ! धन्येषु मन्ये स्वं यत्तस्यां व्यसनी सदा ॥ २३ ॥ श्रीरत्नोपपदाः सिंहा सूरयो धर्म्ममङ्गलम् । तत्तत् किञ्चित्तथाचख्याः प्राप्यते निर्वृतिर्यथा ॥ २४ ॥ छः ॥ आत्मतत्त्वचिन्ताभावना चूलिका ॥ छ ॥ छ ॥ 2003 Jain Education International अनुसन्धान ४४ (२) आत्मानुशास्ति प्राकृतः संस्कृतो वापि पाठः सर्व्वेप्यकारणम् । यतो वैराग्यसंवेगौ तदेवं परमं रहः ॥ १ ॥ अहो ! मूढं जगत्सर्व्वं भ्राम्यदेव बहिर्बहिः । आकुलव्याकुलं नित्यं धिक्किमाश्रित्य धावति ॥ २ ॥ संप्राप्य शासनं जैनं युक्तं किं मम नत्तितुम् । किंवा प्रमाद्यतो युक्तं रोदितुं मे मुहुर्मुहुः || ३ || आत्मन्नहो ! न ते युक्तं कर्तुं गजनिमीलिकाम् । प्रातर्गतं तु सन्ध्यायां स्थातुं कस्तव निश्चयः ॥ ४ ॥ एतं भवं परत्राहो ! नवं स्मृत्वा प्रमादिनः | बाढमाक्रन्दतो मूढ ! मूर्द्धा यास्यति खण्डशः ॥ ५ ॥ कस्मैचिन्नास्मि रुष्यामि इष्याम्यात्मन एव हि । यद्वच्मि तत्र (न) जानामि तत्सम्बोध्यः परः कथम् ॥ ६ ॥ ये वाचाऽऽरव्यान्ति वैराग्यं यान्ति भेदं न मानसे । ह हा हा ! का गतिस्तेषां कारुण्यास्पदभागिनाम् ॥ ७ ॥ किं करोमि क्व गच्छामि क्व तिष्ठामि शृणोमि किम् । संसारभयभीतस्य व्याकुलं मे सदा मनः ॥ ८ ॥ ध्यात्वा किं वच्मि किं तूष्णीं कोऽहं भीतोऽपि निर्भयः । अहो ! मे नटविद्येयं हहा हुं काप्यलौकिकी ॥ ९ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.229312
Book TitleStotratmaka tatha Updeshatmaka Chotris Laghu Krutiono Samucchaya
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherZZ_Anusandhan
Publication Year
Total Pages66
LanguageHindi
ClassificationArticle & 0_not_categorized
File Size895 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy