________________
२
श्री करहेडक-पार्श्व - स्तवः
आनन्दभ(क)न्द-कुमुदाकरपूर्णचन्द्रं
विश्वत्रयीनयनशीतलभावचन्द्रम् ।
उद्दण्डचण्डमहिमारमया सनाथं
नित्यं नमामि करहेटक-पार्श्वनाथम् ॥१॥
नाथ ! त्वदीयमुखमण्डलमीक्षमाणो,
नायं जनो लवणिमापरपारमेति । पोतः प्रयत्नचलितोऽपि कदापि किं वा,
यं (यद्?) गम्यते चरमसागरपुष्करान्तम् ॥२॥
कान्तं तवेश नयनद्वितयं विलोक्य
कारुण्यपुण्यपयसा भरितं सरोवत् ।
मल्लोचने हरिणवच्चपले चिराय
सन्तोषपोषमयतां भवदावते ||३||
कल्पद्रुमो मम गृहाङ्गणमागतोऽद्य
अनुसन्धान- ५९
चिन्तामणिः करतले चटितोऽद्य सद्यः ।
अद्याऽऽश्रिता मम पदौ सुरधेनुरेव
यद् भेटितोऽसि करटक-पार्श्वदेवः ॥४॥
सिद्धानि मेऽद्य सकलानि मनोमतानि,
पापानि पार्श्वजिन ! मे विलयं गतानि । याचे न किञ्चिदपरं भवतो गभीरं
ध्यानं तवाऽस्ति यदि महदि मे स धीरम् ( ? ) ॥५॥
॥ इति करहेटक-श्रीपार्श्वस्तवनं कृतं श्री मेरुनन्दनोपाध्यायेन ॥
श्रीवीसविहरमाणस्तवनम्
भत्ति-सरोवरु ऊलटिउ जागिय हियइ जगीस ।
साहिब आणंदिहिं संथुणिमो विहरमाण जिण वीस ॥१॥