________________
11
चन्द्रकलया तारकेश्वरकिशोरशेखर इव । स मेघनादो राजा एकदाऽरण्यानीं नीतो विपरीतशिक्षितेनाश्वेन विश्रान्तस्तापसाश्रमे तैः सार्धं गतः स राजा कृपाकोशागारनाम देवं वन्दितुम् । स तस्थौ राजा तद्देवाने यावत् योजिताञ्जलिरेव - "गगनगमने शक्तिरस्तु ते" इति तुष्टेन देवेन वरो दत्तस्तस्मै । स च जगाम स्वगृहं गगनमार्गेण । जातं माङ्गलिकम् । राज्यं च वैरिभिराक्रान्तम् । नगरबाह्य एव पारणकविधिश्चक्रे । ततस्तद्देवप्रभावेण सर्वेप्यरातयः पदातयः समभूवन् । नश्यन्तो न पश्यन्ति पदौ न चलतः । वैरिराजानो जीवितयाचितारो जाताः । ततः स सम्राट् जातः । नित्याभिनवविमानरचनया वर्षलक्षं यावद्देवमित्थं ववन्दे । स मृतश्च माहेन्द्रे देवो जातः ।
अयं त्रयोविंशतिमप्रबन्धः, श्रीमेघनादस्य गुरूपदेशात् । श्रीस्तम्भनाथप्रभुसच्चरित्रे, श्रीमेरुतुङ्गेण मुदा प्रबद्धः ।।
(प्रबन्धः २४) पदवाक्यप्रमाणानि, विद्यन्ते कस्य नानने । नमोऽर्हते वदत्युच्चैर्यदास्यं तद्वयं स्तुमः ॥ १ ॥
हीमउरदेशे हीरपुरे हरिदत्तो राजा । हरिकान्ता नाम प्रिया । एकदा च स नृपो निशीथे बालामेकां रुदतीं श्रुत्वा स्वाश्रयात् सहसा समायातो बहिः तस्याः समीपे । पृष्टवान् राजा स्वरूपं - "हे कल्याणि ! कल्या(नि) तवङ्गकानि?" सा प्राह तं च प्रति - "हे महाभाग ! अहं कोकणदेशस्याधिपतेः कुमारेश्वरस्य पुत्री भवनमञ्जरी नाम हरिदत्तानुरागिणी सती गदाधरनामविद्याधरेण अत्राहमानीतास्मि । स चाद्य सन्ध्यायां सिद्धविद्यो मां परिणेष्यति" । इति श्रुत्वा तेन हरिदत्तेन वंशीजालमध्यो विद्यां साधयन् गदाधरो लब्धः । जातमुभयो रणम् । रणे जितो गदाधरः । हरिदत्तेनापि सा परिणीता तत्रैव । ततो दम्पती तौ गृहं जग्मतुः । सोऽपि गदाधरः सञ्जातो विलक्षः प्राप्त: स्वसद्य । अन्यदा च स हरिदत्तःस्वप्रासादचन्द्रशालाससिंहासनगतो विद्याधर्या चैकया समुत्पाट्य नीतो वैताळ्यगिरौ नागपुरं नाम नगरम् । तन्नगरेशेन विद्युन्मालिनामविद्याधरेश्वरेण परिणायितो नागदत्तां निजां पुत्रीम् । कतिचिद्दिनान्ते विद्युन्मालिना स जामाता हरिदत्तो राजा महत्या विभूत्या
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org