SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ 28 रणं कर्तुमुद्यतौ । स राजा तत्रासीनो विलोक्यति स्म । क्षणेन गगनात् तो दम्पती पतित्वा राज्ञोऽग्रे मृतौ । अत्रान्तरे विमानस्थो विद्याधरेश्वरोऽवोचत्.. भो राजन् ! दुर्मना इव किं लक्ष्यसे ? । भो महाराज ! जगामाऽदैवं तव, प्राप्तं त्वया सर्व समीहितं, ननाश विकलत्वं पूर्वभवश्रमणाभ्याख्यानदानफलम् । अन्यच्च गङ्गावेलाजलस्थाप्यमानदक्षिणमधुचिञ्चामूलाधस्थितपुरुषोत्तमनामबिम्बस्नात्रजलं पिब । तदाकर्ण्य राज्ञा तद्विद्याधरवचनं तथा चक्रे । तज्जलं देवद्रव्यमपि सत् "सव्वसमाहिवत्तीयागारेणं" इत्यागारपदबलेन "महत्तरागारेणं" च अस्यापि पदस्य बलेन सर्वसङ्केन मिलित्वा कृतानुग्रह: पपौ देवस्त्रात्रमपि । ततो वाक्पटुताऽभवत्। जज्ञे कल्याणम् । सर्वदेशे महोत्सवः प्रसस्त्रे । जानपदिकाः सोत्साहाः कृतस्नाना सपुष्पशिरसः कण्ठदामाभिरामा सनन्दनाः सचन्दनाः गतरोगाः कृतभोगाः परिधृतविचित्राम्बराः प्रतिगृहप्रतिपाटकप्रतिरथ्यामुखप्रतिचत्वरत्रिकतूर्या - स्फालननिनादप्रतिनिनदिताम्बराः सगीताः स्फीताः सनृत्यारम्भां वीतशङ्का विगतातङ्का लक्ष्मीवन्तः सपक्षाः दक्षा अविषादाः प्राप्तराजप्रसादा; घनदानाः स्थूलहस्ता जबादिजलहरा बीटिकावज्राकराः सूत्कटीसमुद्रा वैरिवैरकरणवाराहाः प्रतिष्ठानिष्ठा वरिष्ठाः पण्डिताः अखण्डिताः बद्धनिजनिजजातिटोला विकसत्कपोला ताम्बलोत्फुल्लगल्लमुखारविन्दाः सानन्दाः गजगतयः सुमतयः कृतमनोवाञ्छितभोजना याचकजनदीयमानसमीहाधिकधनभरविगलितजिनाः सन्मार्जितनगररथ्यासञ्चाराः पवित्राचारा मार्गणप्रवेशबोहनिका निर्गमशम्बलविरदाः सर्वाङ्गविरचिताभरणाः सर्वशरणाः गृहस्थाः स्वस्था अदुःस्थाः शान्ता लक्ष्मीकान्ता उदाराः परोपकारसाराः सबलाः निजनिजव्यवसायप्राप्तफलाः सर्वतोऽपि खेलन्ति स्म । अन्यतश्च राजन्यका राजकुलाश्च सामन्ता मण्डलिकाः शल्यहस्ता दण्डनायका दलपतयश्चमूसाधनिका राजपुत्राः सेनान्यः पदातयश्च श्रीकरणा व्ययकरणा मध्यकरणा अङ्गलेखकाः सूणलेखका मन्त्रिणः अधिकारिणः वसिष्ठाः श्रेष्ठिनः नायका महत्तरा महत्तमा अन्येऽपि च सामान्यलोकाः चत्वारो वर्णाः षडपि दर्शनानि चतुरशीतिमहाजना अष्टदशप्रकृतयः षट्त्रिशद् राजकुल्यः षट्त्रिंशत् प्रवण्यः षण्णवतिराजरीतिका षण्णवतिपाखण्डानि विंशत्यधिकसप्तशतमतानि च स्वेच्छया राजप्रसादनिरर्गलं रमन्ति स्म । गायनानि स्वरशुद्धिमाधुर्यरसेन विश्वावसुं हसन्ति स्म । नर्तकीगणा देवनर्तकी रम्भाप्रमुखी स्वतालशुद्धिसमनखादिनर्तनसूक्ष्मशुद्धिवैद'ध्येन तर्कयन्ति स्म । वादित्रोपाध्यायाः शिववाडशक्तिवाडहस्तवाणिप्रमुखाक्षरशुद्धि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.229309
Book TitleStambhanadhish Prabandh sangraha Bhumika
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherZZ_Anusandhan
Publication Year
Total Pages60
LanguageHindi
ClassificationArticle & 0_not_categorized
File Size999 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy