SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ August-2004 15 लेखा कज्जलपेशलाक्षिपयसां किं स्कन्धयोः सङ्गता श्रेणी यस्य शिरोरुहां श्रियमधात् पायादपायात् स वः ।।७।। हा ! नैकाऽपि मया महोदयशिला पूर्णीकृतौजस्विना सप्तानामपि मध्यतश्च नरको नैकोऽपि रिक्तीकृतः । व्यज्ञायि स्वमकीर्तियुग्ममनिशं येनेति भाऽलकाः स्वस्कन्धोपरिगा द्विधा शितितमास्तं दध्महे हृद्गहे ॥८॥ घ्राणानन्धरविन्दकुन्दकुमुदीमोदश्रियां जित्वरं घ्रातुं सौरभमास्यसम्भवमसौ कि स्मैत्यलीनां ततिः । कालिन्दीसलिलोमिवर्मितशरव्योमोपमो निःसमो यस्याउंसे शुशुभे लुठञ् शिरसिजस्तोमः स्तुमस्तं जिनम् ॥९॥ द्वे मोक्षस्य ..... पद्धतिधुरे सार्धं द्वयोः स्कन्धयोर्यस्योव्यौं वहतस्तदेक पिशुने चिह्न इवोद्धर्षजे । दोर्मूोः पतितौ पृथग् जलधरश्यामौ श्रियं बिभ्रतुश्वारू यच्चिकुरोच्चयौ चयमयं प्रीणातु पुण्यात्मनाम् ॥१०॥ भर्ता भोगभृतां त्वमेव बलवांश्चाऽचाऽमी वयं भोगिनस्तेनाऽस्मत्कलकालतो गरुडतो नः पाहि दासानिति । कि विज्ञसुमितास्त एव फलिनीनीलोत्पलश्यामला लग्ना यच्छुतिमूलयोः शुशुभिरे केशाः स ईश: श्रिये ॥११॥ हत्कुण्डस्थमनुष्णधामधवलं ध्यानामृतं रक्षितुं देवेनाऽम्बुजजन्मना विनिहित: किं श्यामल: कुण्डली । यद्दोर्मूर्धनि मूर्धजव्रज उमापुष्पोपमः प्रोल्लसन् सौभाग्यं बिभराम्बभूव भगवान् भूत्यै सतामस्तु सः ॥१२।। माऽस्मिन् दुष्टदृशां दृशामसदृशां दोषः मुखध्वंसकृद् भूयाद्विश्वमनोरमे भगवतः काये निकाये श्रियाम् ।.. मत्वेत्यब्जभुवाऽऽञ्जनी जनितमुद्रेखा कृता किं स्वयं यस्याउंसे पतिताऽलकालिरभसात् सोऽर्हन् श्रियं रातु वः ॥१३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.229302
Book TitleRushabh Shatak
Original Sutra AuthorN/A
AuthorKalyankirtivijay
PublisherZZ_Anusandhan
Publication Year
Total Pages22
LanguageHindi
ClassificationArticle & 0_not_categorized
File Size454 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy