________________
अनुसन्धान ३३
(१) श्रीसुविधि-पार्श्वजिनस्तवः (अपूर्णः) ।।
• • • • • • • • • . . बमानमेखलाभिरामदामवलयवल्गनावलम्बवल्गुना सुरेन्द्रपद्मलोचनाकरेण ! यस्य सुन्दराभिषेककारिणा गभस्तिबिम्बचुम्बिदेवशैलदेशपेशलप्रदेशसङ्गिगाङ्गनिर्झरानुकारिणा । विराजितं विराजितं भवाहिनाशने नमामि तं नितान्तशान्तसेवधि भुजङ्गराजलाञ्छनं जिनम् ॥३१॥ नाराचकः ॥ इन्दुसुन्दरसितातपत्रपरिमण्डितौ घनभवगहनजननभयभञ्जनपण्डितौ । हारशशाङ्कपाण्डुरयशोभरशालिनी कोविदवदनपग्रहसितद्युतिमालिनौ ॥३२॥ ललितकम् ॥ कृपावतारौ सुरैज्जितारौ कृतोपचारौ गताऽतिचारौ ! शुचिप्रकारौ गलद्विकारौ सुखप्रचारौ समग्रसारौ ॥३३॥ वानवासिका ॥ तौ महोदयविलासभाजना-नन्दितावभिनुतौ सभाजनाः । एतयोरुपरि येऽसभाजना- स्ते भवन्ति किल रासभा जनाः ॥३४॥
अपरान्तिका ॥ स्तुतमिति जिनपतियमलं, विबुधव्रजसेव्यमानपदयमलम् । सिद्धधुनीजलविमलं सृजतु विनिद्रं हृदयकमलम् ॥३५।। आर्या ॥ सुविहितकुलकोटीरं वन्दे श्रीविजयदेवगुरुवीरम् । श्रीविजयसिंहधीरं श्रीमत्कल्याणविजयगुरुहीरम् ॥३६॥ आर्या ॥ श्रीलाभविजयविबुधा-स्तेषां शिष्या विशेषविद्वांसः । तेषां शिष्यवतंसौ विबुधौ श्रीजीतविजय-नयविजयौ ॥३७॥ आर्या ॥ अलिनेव तच्चरणवर-पङ्कजपरिचरणकरणरसिकेण । श्रीसङ्घप्रार्थनयो-द्युक्तेन यशोविजयगणिना ॥३८॥ आर्या ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org