________________
December-2004
एकादशोधिकार मंगलाचरण
अथोच्यते धर्मलाभ-श्छनसिंहस्य तेजसा ।
श्रीपार्श्वभास्वतोऽय॑स्य केशवेनोदितश्रिया ।। (३६ ए) एकादशोधिकार प्रशस्ति
श्रीशङ्केश्वरपार्श्वस्य भास्वत: केशवार्चनात् ।
प्रभावाद्धर्मलाभोत्राऽसाधि साधुरसाधिकः ॥ (३६ ए) द्वादशोधिकार मंगलाचरण
अथ केशवसेव्यस्य प्रभावात् पार्श्वभास्वतः ।।
धर्मलाभः कन्यकायाः कन्यते धन्यया धिया ॥ (३६ बी) द्वादशोधिकार प्रशस्ति
एवं केशवपूज्यस्य प्रभोः पार्श्वस्य तेजसा ।
असाधि साधिकधिया धर्मलाभोऽधुना स्त्रियाः ॥ (३७ ए) त्रयोदशोधिकार मंगलाचरण
श्रीकेशवस्थापितपार्श्वभर्तुः प्रभाकृतः शुद्धमहःप्रकाशात् । सत्या युवत्या अपि धर्मलाभ: श्राद्ध्याः प्रसाध्योऽथ गुणाभिधायाः ॥
(३७ ए) त्रयोदशोधिकार प्रशस्ति
जीयात् शङ्केश्वरः पाऊ भास्वानिव सदोदयी ।
प्रभावाद्धर्मलाभोऽत्र द्वितीयः साधित: स्त्रियाः ॥१३।। (३८ ए) चतुर्दशोधिकार मंगलाचरण
प्रणम्य शकेश्वरपार्श्वभर्तुः मूर्ति सदा केशवपूजनीया । स्त्रियास्तृतीयोप्यथ धर्मलाभः प्रकाश्यते सुप्रभयैव भानोः ॥१३॥
(३८ ए) चतुर्दशोधिकार प्रशस्ति
श्रीशङ्केश्वरपार्श्वभास्वदुदितप्रौढ़प्रभोल्लासतः, कामिन्या: समसाधि साधिकधिया श्रीधर्मलाभोदयः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org