________________
December-2004
चतुर्थाधिकार प्रशस्ति
नाम्नेत्युत्तमचन्द्रकस्य भगवत्पार्श्वस्य शङ्केश्वरस्याह्वानस्य निवेशनेन विदितः श्रीकेशवस्याप्ययम् ॥ सम्बन्धात् समसाधि साधिकधिया श्रीधर्मलाभो मया
तत्राभूदधिकार एष यशसां हेतुश्चतुर्थः श्रिये ॥१॥ (१८ बी) पंचमाधिकार मंगलाचरण
श्रीकेशवस्थापितमूर्तितेजः-प्रौढस्य शङ्केश्वरपार्श्वभानोः ।
प्रभाभरान् मन्त्रिणि राजमल्ले-ऽधिकाधिकारप्रतिपत्तिरस्तु ।।१।। पंचमाधिकार प्रशस्ति
श्रीशङ्केश्वरचारुरूपभगवत्पार्श्वस्य भास्वत्प्रभोः, शुश्रूषो भुवि राजमल्ल विलसन् नाम्नि श्रिया केशवे ॥ सम्बन्धात् समसाधि साधिकधिया श्रीधर्मलाभो मया
तत्राभूदधिकार एष यशसां हेतुः श्रिये पञ्चमः ॥ (२१ बी) षष्ठोधिकार मंगलाचरण
श्रीशङ्केश्वरपार्श्वस्य भास्वत: तेजसांजसा । श्रीकेशवाचितस्यौच्चैः प्रकाशः शाश्वतोऽस्तु मे ॥ इह भीमभुजौजसा जगद्विजयख्यातिधरक्षमापतेः ।
प्रकटीकृतधर्मलाभधीरधिकारः प्रतिपाद्यतेऽधुना ॥ षष्ठोधिकार प्रशस्ति
श्रीशङ्केश्वरचारुरूपभगवत्पाāश भास्वत् प्रभो । शुश्रूषोस्तव साधुभीमविजयख्याते श्रिया केशवे ॥ सम्बन्धात् समसाधि साधिकधिया श्रीधर्मलाभो मया ।
तत्राभूदधिकार एष यशसां हेतुःश्रिये षण्मितः ॥ (२५ बी) सप्तमोधिकार मंगलाचरण
श्रीशकेश्वरपार्श्वभास्वदुदयज्योतिभरैः श्रीमहोपाध्यायाद्यभिषिक्तमेघविजयस्यात्राधिकारस्तव । मिथ्याज्ञानतमोविनाशनकृते प्राप्से प्रकाशे मया, वक्तव्यः शुचिनव्यभव्यसुमनोऽम्भोजन्मबोधाशया ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org