SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ अनुसंधान-१६ . 18 सुविस्मिताम्भोजभरे स्वकस्वकादुत्थाय नीडात् प्रचलद् द्विजव्रजे । द्विजातिजातेन सुपठ्यमानऋगादिवेदे प्रसरत्प्रकाशे ।।९२॥ प्रणष्टपाटच्चरचक्रवाले विधीयमानाऽसमधर्मवृ(कृ)त्ये । मुक्तप्रमीले समजन्तुजातैर्जाते प्रभाते किल तत्र पूते ॥१३॥ इति प्रातर्वर्णनम् ॥ यदीयकान्तेः पुरत: सुधीभिनिरीक्ष्यते शीतमयूख एषः । प्रभाविहीनः किल पाडु(ण्डु)रच्छदच्छविर्न कस्यापि दृशोः प्रमोदकृत् ॥९४|| कवलयति कलापं तामसं यः करौघैभजति विकचभावं यं निरीक्ष्याऽब्जपंक्तिः । भवति जलतिनेमी येन तेजस्विनीयं स्पृहयति हदि यस्मै सन्ततिर्मानवानाम् ।।९५॥ व्रजति निखिलजाड्यं क्षीणभावं च यस्माद् विषयहयरथाङ्गैः स्यन्दनो यस्य नित्यम् । अनिमिषपथपारं प्राप्तवान् श्रोणिसूतः प्रविलसति हि यस्मिन् प्रग्रहाणां सहस्रम् ॥९६|| बुधपरिवृढकाष्ठाभामिनीभव्यभालस्थलतिलकसमाभेऽम्भोजिनीप्राणनाथे । उदयमियति विश्वोद्योतके दीप्रभानौ प्रमुदितसमचक्रद्वन्द्वचित्तेऽतिवित्ते ॥९७|| इति रविवर्णनम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.229280
Book TitleDhanharshshishya krut Vignaptika lekh
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherZZ_Anusandhan
Publication Year
Total Pages27
LanguageHindi
ClassificationArticle & 0_not_categorized
File Size481 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy