________________
अनुसंधान - १६ • 17
सोत्कण्ठमानसमहीनमहीनभक्तिव्यक्त्यद्भुतं सबहुमानममानमानम् ॥८५॥ आवर्त्तकै रविमितैः सहितैः प्रकामं भक्त्याऽभिवन्द्य वस्वन्दनकैस्तु तातान् । संयोज्य पाणियुगलं निजभालदेशे विज्ञप्तिकां वितनुते धनहर्षशिष्यः ॥ ८६ ॥
नभस्तः प्रणश्यन्ति यत्रातिदूरे समग्र ग्रहाणां गणा हीनभासः । प्रतापप्रकर्षस्पृशो रत्नगर्भाविभोविद्विषां पंक्तयो चाखिलानाम् ॥८७॥
ज्योतिर्नष्टं तारकाणां वरिष्टं यत्रोद्रच्छद्धर्मरश्मिप्रभावात् । अर्णोयोगाद्दर्पणानां यथा वा
मन्त्रोच्चाराद् वा यथा दृश्रुतीनाम् ॥८८॥ यियासवः सन्ति सुधाशनाध्वनो यस्मिन् समागच्छति तारकोत्कराः । द्विजा यथा स्यात् कि [ल] विस्रसागमे समीरवृन्दाच्च कुशाग्रबिन्दवः ||८९ ॥
निरीक्ष्य यं सन्तमसव्रजा ययुः प्रणश्य दूरे जननीलरोचिषः । क्षणाद् यथा दृग्श्रवणं प्लवङ्गमाः पाटच्चरा वा दृढदुर्गपालकम् ॥९०॥ अनेकपौधा विषमाननं यथा कुम्भीनसा वा विनतातनूभवम् । मितम्पचा मार्गणमापतन्तं त्रिकालविद्वत्कमघप्रकर्षाः ॥ ९१ ॥
Jain Education International
इति प्रातर्वर्णनम् ॥
For Private & Personal Use Only
www.jainelibrary.org