SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ अनुसंधान-१६ . 13 प्रदेशा: सद्वस्तप्रथितमहिमा यत्र रुचिरे ।।५९॥ तथा याभिः स्वाभिर्गतिभिरनिशं सिन्धुरवण जिता एताश्चैतान् परिदधति नारीभसिचये । किमन्यच्चातुर्यं परिवदति तासां बुधजनो यकाभिः स्वर्योषाः स्वकगुणवितानैः प्रविजिताः ॥६०॥ सुकृतिसदने यस्मिन्नित्यं विभान्ति मृगीदृशोऽधिकमिभमृगीदृग्भ्यो यत् तन्न कौतुकमस्ति नः । निजकवदने दन्तश्रेणी वपुः कनकप्रभं सुकरयुगलं शुभ्रं वकं त्विमाः किल बिभ्रति ॥६१॥ वितरणगुणत्प्रो(प्रो)द्यत्पाणि वचः श्रवच्छृति(?) (श्रवणश्रुति) जिनवरगुरुश्राद्धादीनां गुणावलिकीर्तनात् । वदनममलं स्वं कुर्वन्ति क्षणादतिपावनं नलिननयनाः श्रद्धालूनां वसन्ति हि यत्र ताः ॥६२॥ सामायिकादिसमधर्मक्रियासु दक्षा श्रीमज्जिनेन्द्रपदपूजनभव्यभक्तिः । विद्योतते बहुततिः सदुपासिकानामम्बेव या शमवतां शिवसौख्यादानाम् ॥६३।। इति सप्तभिः काव्यैः श्राद्धीवर्णनम् ॥ __ अथ श्रीजिनमन्दिरवर्णनम् । यथाअर्हद्धाम्नां पटलमसमं वीक्ष्य विध्वस्तपीडं प्रेम्णां वृन्दं सुकृतिभविनः प्राप्नुवन्ति प्रकामम् । चक्रवाता इव परिवृढं मंक्षु पाथोजिनीनां यद्वा ज्योत्स्ना प्रियसमुदया यामिनीप्राणनाथम् ॥६४॥ व्यक्तं वीथी विलसतितरां श्रीजगन्नाथधाम्नामंहो भीतं व्रजति सकलं दूरतो यां समीक्ष्य । चिन्तारत्नावलिमिव महादुर्विधत्वं नराणां यद्वा पञ्चाननततिमलं सिन्धुराणां स्मयित्वम् ।।६५।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.229280
Book TitleDhanharshshishya krut Vignaptika lekh
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherZZ_Anusandhan
Publication Year
Total Pages27
LanguageHindi
ClassificationArticle & 0_not_categorized
File Size481 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy