________________
सप्टेम्बर २००८
निश्शेषोरुकलानिधिर्नवरसानाखण्डलाभीप्सितान्,
संसारद्रुमसस्यमेकसमयं य: स्फारयत्यञ्जसा । क्रामन् शाहिजिहानपुत्रमणिना तेनाऽसकृद्भूतलं,
जीयात् श्रीइसलामशाहिनृपतिः साहस्रचूडामणिः ।।१९।। [शार्दूल०] तस्याऽमात्यशिरोमणेः शुचिमतिप्रागल्भ्यकाव्यस्य ता,
आसपखान इति प्रसिद्धिमयत: कुर्वीत को न स्तुती: ? दिग्चक्रे विजितेऽपि यस्य सुभटाकीर्णे चतुर्भिः स्फुटो
पायैः सैन्यमिदं पिपति भुवनं शोभाकृते भूभृतः ॥२०॥ [शार्दूल०] किञ्च- श्रीमानूकेशवंशो विशदतररमाजन्मभूर्भासतेऽसौ,
तस्मिन् पद्मावसत्या जगति सुविदितः पद्मनामा बभूव । पद्मादेवीति विष्णोरिव समजनि सद्नेहिनी शुद्धशीला,
भास्वद्विश्वत्रयस्याप्युपकृतिचतुराधारतां बिभ्रतोऽस्य ॥२१॥ [स्रग्धरा] किञ्च- सूनुस्तयोः स(श)मधरो मधुरोचितश्री
श्चन्द्रेण यस्य मधुरो(रा?)ऽधिकमाबभासे । विस्मेरयत्कुवलयं कलितः कलाभि
ब्राह्मीव तस्य दयिता खलु जीवणीति ॥२२॥ [वसन्त०] पुत्रस्तयोः सहलुआ इति नामधेयो,
गेयो बभूव सुजनैः सुगुणैरमेय: । सद्बुद्धिवैभववितर्कितसत्प्रमेयः,
पाटीति तस्य दयिता गिरिजेव शम्भोः ॥२३॥ [वसन्त०] तन्नन्दनो हरपतिस्सुमनोऽभिनन्द्यः,
पूनाइरित्यभिधया विदिता सतीयम् । यं प्राप्य युक्तमसकृद्दयिता व्यराजत्,
सर्वत्र सर्वविबुधव्रजवन्दनीया ॥२४॥ [वसन्त०] तदेहजः समजनिष्ट गरिष्ठलक्ष्मी
र्वच्छाभिधो जगति लब्धशुभप्रतिष्ठः ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org