________________
अनुसन्धान ४३
'चक्रे ध्वनेश्वरति चेतसि योगपट्टावष्टम्भितश्चिबुकचुम्बितजानुमध्या । नैर्मल्यतः स्वनयनादि निरञ्जयेद् यत्, कर्म स्मृतं गतमदेरिदमञ्जनीति ॥११५||२२ लिङ्गद्वारान्तरालादुपनयति मनो मूलकन्देऽथ तस्मानक्षत्रोद्दामदीप्तिर्गमयति यशया वामनेत्राम्बुजान्तम् । चक्षुर्मार्गाच्च सव्याद्विरचयतितरां मूलकन्दे पुनस्तत् कर्माऽलिन्दीति योगावसथपृथुतरालिन्दतुल्यं तदाहुः
॥११६॥२३ कर्मेदमेव मनसि प्रस्थिते गजजिह्वया । कालिन्दी-गङ्गयोः सङ्गात् कालिन्दीकर्म कीर्त्यते
॥११७॥२४ चिराभ्यासवशीभूतै-रापूर्णा कर्मभिस्त्रिभिः । पुंसां दिशति सन्तोष-पोषं सन्तोषिणी कला
॥११८॥२५ आकुञ्चन् पायु-शिश्ने मनसि च नितरामुन्मनीचकलीने कापालद्वाररन्ध्रस्थगनपरिचयप्रजिह्वाकवाटः । अन्तर्देहं समीरे विलयमुपगते शश्वदभ्यासयोगात् काष्ठीकर्मेदमुच्चै रचयति वपुषः काष्ठकाष्ठाविधायि
॥११९॥२६ "बिन्दुस्थाननिकेतनातिथिमना ग्रीवान्तकान्तस्थिति
या॑तन्वन् चिबुकं स्वकण्ठमभितो नाड्याविडा-पिङ्गले ।। अष्टद्वयपीडनान्निविडयन् मूर्छान्धकारान्तरे यत् पीयूषरसं पिबेत् तदमरीकर्मेदमावेदितम्
॥१२०॥२७ रून्धन् रन्ध्रव्रजमनुसरन्मानसेनाम्बुमुद्रां कृत्वा वज्रासननिबिडतां चन्द्रबिम्बात् पराचीम् । निश्च्योतन्ती यदमृतकलां चारयेत् स्वे समन्तादन्तोच्छित्त्यै तदिदमवदन् खेचरीकर्म सन्तः
॥१२१||२८||७ आकल्पान्तमियं कर्म-त्रयसंवृत्तवर्त्तना । शरीरिणां शरीराणि वर्तयेद् वर्तनी कला
॥१२२।।२९ पुरुषधामवशंवदमानसो घटपटाद्यपि हि स्वतया स्मरन् । स्वकुल एव भवत्ययमीश्वर-स्तदिह कर्म कुलीश्वरमूचिरे ॥१२३॥३० १. आधारोपरि । २. आधारादधः । ३. सोमचकोपरि । ४. आज्ञाउपरि ७ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org