SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ अनुसन्धान ४३ १७ 'देव्यादिमण्डलगतं विरचय्य चेतः संगृह्य शङ्ख इव भूरिसमीरवीरम् । स्तोकं विसारयति नासिकया बहिर्यत् तच् शङ्खसारणमिति प्रथयन्ति कर्म ॥९६॥३ ऊ/कृतेन चरणद्वितयेन मूर्द्धा-वष्टम्भतः सरलतां गमिते शरीरे । आक्रामति स्मरणचक्रभुवं मनो यत् तत् कर्म विश्रुतमिहाऽभिधया कपाली ॥९७।४ विश्रामधामनि निवेश्य मनो रसाना-मङ्गष्टवक्त्रपरिपीडितलम्बिकाग्रः । स्थित्वोत्कटो मुखरसं विनिपातयेद् यत् तत् कर्म पातनमिति प्रथयाम्बभूव ॥९८॥ ५॥१ अभ्यासकृतसंवर्म-कर्मत्रयविभूषणा । लक्ष्मीर्लक्ष्मीकृतं देह-माधत्ते लक्ष्मणा कला १९९।। ६ मनो महापद्मवने निवेश्य निरुद्धय नाडीपवनं सशब्दम् । निःसारयेदिन्द्रियवर्त्मना यत् कर्मेदमाहुः प्रतिसारणारव्यम् ॥१००। ७ मध्ये तोयस्य वज्रासननिविडवपुर्बरिन्ध्रे निरुध्य स्वस्वान्तं नासिकान्तद्वयमुपरि दधत् कूपरद्वन्द्वमुच्चैः । कृत्वा किञ्चित् प्रकोष्टौ श्रवणविवरयोः सम्पुटीकृत्य पाणि-- द्वैतं न्यस्येत मूर्ति स्फुटमिदमुदितं कर्म मत्सीति नाम्ना ॥१०१॥ ८ ''चक्रे क्रोधानलस्य प्रतिनियतमनःसङ्गतिः पादगुल्फा चान्योन्यं गाढरूढोत्कटकवपुरुपश्लिष्य पाणिद्वयेन । उच्चैर्वेगप्रयोगादुपरि परिपतन्नीरधाराभिसारा- . दुद्यन्मण्डूकलीलां कलयति तदिदं कर्म मण्डूकसंज्ञम् ॥१०२।। ९ कर्मभिस्त्रिभिरुद्दाम-धामश्रियमधिश्रिता । वपुषः पोषमाधत्ते विस्पष्टं पुष्टिनी कला ||१०३॥ १० पिङ्गलामथ च दक्षिणमङ्गं पीडयन्नयति वातमिडायाम् । सक्तशक्तिलयधामनि' चित्ते शक्तिकर्म तदिदं निगदन्ति ॥१०४॥ ११ १. घण्टिकायां ललनाचक्रोपरि १ पञ्चमम् ।। २. भ्रूमध्ये आज्ञाचकोपरि पञ्चदशम् । ३. आज्ञाचकोपरि षड्रसविश्रामः पञ्चमम् ॥ ४. आज्ञाचक्रोपरि एकादशम् । ५. आज्ञाचक्रोपरि द्वादशम् । ६. आज्ञाचक्रोपरि एकविंशतितमम् । ७. आज्ञाचक्रोपरि अष्टाविंशतिमम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.229272
Book TitleAnandsamucchayo Nam Yogshastram
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherZZ_Anusandhan
Publication Year
Total Pages39
LanguageHindi
ClassificationArticle & 0_not_categorized
File Size652 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy