________________
जून २००९
लब्धार्थः श्रवणेन गृहीतार्थबोधन:, 'पृष्टार्थः ' संशये सति विनिश्चिता [र्थोऽ]र्थविदुत्तरलाभे सति । पंचसय गाहा (१८८) 'दिन्न -भय- भत्त - वेयण' त्ति दत्तभृति - भक्त - वेतना: । 'घड' गाहा (१८९) पिठरान् स्थाली:, अर्धघटान् घटार्धमानान् वारकान्, गडुकान् - करकान् वाऽर्धघटिकान् उडिकाः सुरातैलादिभाजनविशेषान्, कलशान् आकारविशेषवतो वृद्धघटान्, अलिञ्जराणि महत उदकभाजनविशेषान् । सद्दालपुत्त गाहा (१९३) 'महमाहण' त्ति माहन्मि न हन्मि इत्यर्थः, आत्मना वा हनननिवृत्तः परं प्रति 'मा हन' इत्येवमाचष्टे यः सः 'माहन:' । स एव मनःप्रभृतिकरणादिभिराजन्मसूक्ष्मादि भेदभिन्नहन [न]निर्वृत्तत्वात् महामाहनः । सर्वज्ञ: 'साकारोपयोगसामर्थ्यत्वात् । 'अरह'त्ति अर्हन् प्रातिहार्यादिपूजार्हत्वात्, अविद्यमानं रह एकान्तः सर्वज्ञत्वात् यस्याऽसौ अरह: । 'केवली' केवलानि परिपूर्णानि शुद्धानि अनन्तानि वा ज्ञानादीनि यस्य सन्ति सं केवली । 'जिनो' रागादिजेतृत्वादिति । उप्पन्ननाण गाहा । ( १९४) उप्पन्न आवरणक्षण आविर्भूते ज्ञान-दर्शने धारयति - इत्येवंशील 'उत्पन्नज्ञानदर्शनधारी । 'तेलोक्क- वहिय महियकमो' त्ति त्रैलोक्यं (त्रैलोक्येन ) त्रिलोकवासिना जनेन, 'वहिय' त्ति समग्रैश्वर्याद्यतिशय सन्दोहदर्शन समाकुलस्वचेतसा हर्षभरेण प्रबलकुतूहल- बलादनिमेषलोचनेनावलोकितः । 'महिय'त्ति सेव्यतया वाञ्छितौ क्रमौ यस्य । एतदेव व्यनक्ति सुरासुरनृपतिभिः पूजितौ पुष्पादिभि: सत्कारितौ वस्त्रादिभिः प्रणतौ क्रमकमलौ पादपद्मौ यस्य स तथा । पच्चुप्पन्न० गाहा ( १९५) पच्चुप्पनाऽणागयअईयसमयस्स जाणओ' प्रत्युत्पन्नाऽनागतातीतसमयस्य ज्ञापकः । ‘तह तच्चकम्मसंपयजुत्तो' - (तथा) तथ्यानि सत्फलानि अव्यभिचारितया यानि कर्माणि क्रियाः तत् तत्सम्पद (दा) स्तत्तत्समृद्ध्या संयुक्तः सहितः, क्षीणमोहश्च । 'अह० गाहा (२०८) 'वायाहयभंडगं स कोलालं' ति वातेन हतं वायुना ईषच्छोषमुपनीतं तच्च तद् भाण्डं च, पण्यं भाजनं वा 'कौलालं'
कुलाला: कुम्भकारा:, तेषामिदं कौलालं । ताजइ गाहा (२१३) 'भिंदिज्ज' इत्यादि भिन्द्यात् काणताकरणेन विकिरन् इतस्ततो विक्षिपन् परिष्ठापयन् बहिनीत्वा त्यजन् अपहरन् चोरयन् । सो आह० गाहा (२१५) आउसेमि' इत्यादि - आक्रोशामि 'मृतोऽसि त्वं' इत्यादिभिः शापैरभिशपामि, बध्नामि रज्ज्वादिना तर्जयित्वा 'ज्ञास्यसि रे दुष्टाचार ! वा' इत्यादिभिर्वचनविशेषैः, ताडयित्वा चपेटादिना, निच्छोटयित्वा धनादित्याजनेन, मारयामि जीविताद्
2
,
-
Jain Education International
For Private & Personal Use Only
-
३३
—
—
.
www.jainelibrary.org