SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ डिसेम्बर २००८ सा सम्प्रति व्यथितशीतभरेण भीता, पूर्वाङ्गनाऽरुणरुचा घुसृणाङ्गरागम् ॥१५॥ छिन्नाखिलामृतकले परवारिराशे रोदकं श्रितवति द्विजनायकेऽमी । शाखाभृतां शिखरतः खलु दुःखिनः स्वं, मुञ्चन्ति काकु विरुवन्ति च हि द्विजन्माः ॥१६॥ क्षारेण वार्द्धिपयसा बहुनाऽप्यतृप्तः, पातुं निरेति मधुरं जलमन्यदेषः ।। श्रीशारदावलयमण्डलमध्यवर्ती, भानुच्छलेन वडवामुखचित्रभानुः ॥१७।। देवस्त्रयीतनुरसाविति भानुमन्तं, युक्तं पुराणगततत्त्वविदो वदन्ति । यस्य द्विजा अपि समागमने स्तुवन्तो, मुञ्चन्ति विष्टरममी निजमीश ! पश्य ॥१८॥ पूर्वं मिलन्ति ककुभस्तिमिरेण नीली रागा हसन्ति सह चन्द्रमसा क्षणेन । रज्यन्ति बालतपनेन ततस्तदासां धिक् चञ्चलत्वमिति चञ्चललोचनानाम् ।।१९।। इत्थं निशम्य मगधाधिपतिविसृज्य, देवीं विरागितमनाः स्वनिकेतनाय । आकार्य चाऽभयकुमारममात्यमित्या-- ___-देशं ददावथ भृशाभिनिवेशभीष्मः ॥२०॥ शुद्धान्त एष निखिलोऽपि मया कुशीलो, ___ज्ञातः प्रदीपय तदेनमरे ! जवेन । कार्यं त्वयेत्यपरथा न हि मातृमोहा दुक्त्वेति नाथमभिनन्तुमयं जगाम ॥२१॥ सोऽथ स्वभावादपि दीर्घदर्शी, __ व्यचिन्तयच्चेतसि तातभीते:२६ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.229269
Book TitleAbhayabhyuday Mahakavya
Original Sutra AuthorN/A
AuthorSuyashchandravijay, Sujaschandravijay
PublisherZZ_Anusandhan
Publication Year
Total Pages27
LanguageHindi
ClassificationArticle & 0_not_categorized
File Size486 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy