________________
१६
वत्सराजो जगौ राज - पुत्रीमिति तदा प्रिये ! । गच्छावः साम्प्रतं भद्र - वतीमारुह्य हस्तिनीम् ॥४८॥ नृपो वसन्तकेनाऽथा -ऽऽनाययत्तां करेणुकाम् । गन्तुं सधात्रिका राज - पुत्री सज्जा बभूव च ॥ ४९|| दूष्यायां नह्यमानाया - मिभी सा रसितं व्यधात् । एको नैमित्तिकस्तच्च श्रुत्वा रसितमब्रवीत् ॥५०॥ कक्षायां बध्यमानायां यथा रसति हस्तिनी । योजनानां शतं गत्वा, तथा प्राणान् प्रहास्यति ॥५१॥ बबन्ध वत्सराजस्य वचसा स वसन्तकः । इभ्यामूत्रस्य घटिका--श्चतस्रः पार्श्वयोर्द्वयोः ॥ ५२॥ मिठो राजसुता वत्स - स- राजो घोषवतीकरः | धात्री काञ्चनमाला चाऽऽरुरुहुस्तां द्विप ततः १८ ॥५३॥ यौगन्धरायणो याहि, याहीति करसञ्ज्ञया ।
,
अनोदयन्नृपं सोऽपि, जुघोषेति व्रजंत (स्त) दा ॥५४॥ वत्सराजो वेगवती - घोषवत्यौ वसन्तकः । वासवदत्ता काञ्चन-माला सार्थः प्रयात्यसौ ॥५५॥ गतेषु तेषु नृपतिः क्रुद्धो नलगिरिं गजम् । सन्नाह्य ताननुप्रैषीद्, युतं यौधैर्निषादिभिः ॥ ५६ ॥ उल्लङ्घ्य पञ्चविंशत्या, योजनैः प्रमितां भुवम् । वत्सराजस्तमायातं, पृष्ठेऽपश्यन् महागजम् ॥५७॥ स्फोटयामासिवानेकां, ततो मूत्रघटीमयम् । प्रेरयामास च पुन - जवेनैतां करेणुकाम् ॥५८॥ जिघ्रन् करेणुकामूत्रं, करी सोऽपि स्थितः क्षणम् । पृष्ठे सञ्चारितश्चैषां कष्टेन महता ततः ॥ ५९॥ अध्वनि स्फोटयन्नन्या, अपि तावति तावति । इभीमूत्रस्य घटिका, गतिं सा करिणोऽरुणत् ॥६०॥ सयोजनशतप्रान्ते, कौशाम्बीमविशत् पुरीम् । व्यपद्यत परिश्रान्ता, साऽपि वेगवती द्विपी ॥ ६१ ॥
Jain Education International
अनुसन्धान ४६
For Private & Personal Use Only
www.jainelibrary.org