________________
136
M. Jambūvijaya
च स एव कियत्कालावस्थायी स्वभावो यः प्रथमे क्षणे आसीत् , ततो नैव निवर्तेत कियत्कालावस्थायित्वात् । तस्मान विनाशहेतुसापेक्षनिवृत्तिकः कश्चिद् भावो हेतुमिर्जन्यते । अथानिवृत्तिधर्मा तस्य स्वभावः, तर्हि विनाशहेतुमिरपि न निवर्तयितुं शक्येत" [प्रमाणविनिश्चयटीका पृ० २८९ A-B] इति । ____P. 101. एतेन- “अस्त्यनुभवविशेषोऽर्थकृतो यत इयं प्रतीतिर्न सारूप्यादिति वेत् 1 इति परमतमाशय यदुक्तम्- “अथ किमिदानीं सतो रूपं न निर्दिश्यते ? इदमस्येति निर्देष्टुं न शक्यत इति चेत् , अनिरूपितेन नामायमात्मना भावान् व्यवस्थापयति इदमस्येदं नेति सुव्यवस्थिता भावाः" [प्रमाणविनिश्चयः पृ० २६९ ] इति, तत् प्रत्युक्तम् । P. 105. यद् विनिश्चयः -
सहोपलम्भनियमादभेदो नीलतद्धियोः । अप्रत्यक्षोपलम्भस्य नार्थदृष्टिः प्रसिध्यति ।
[प्रमाणविनिश्चयः पृ० २६३B-२६४A ] P.107. तदुक्तम्- "ततः कल्पितभेदनिबन्धनः सहशब्दप्रयोग इति को विरोषः" [प्रमाणविनिश्चयटीका पृ० १८६ A] इति ।
___P. 107. एतेन यदुक्तम्-. " विकल्पज्ञेयभेदार्थः, सहशब्दोऽपि मेदिनि । स तुल्यः कल्पनोत्थेऽपि, .
योऽप्याह-'न सहशब्दोऽर्थान्तरेण विना क्वचिदस्तीति नील-तद्धियोः सहोपलम्भादेव नीलस्य भेदसिद्धेविरुद्धो हेतुः' इति, तदपि तस्यासमीक्ष्य भाषित्वम् । यतो मेदिन्यपि अर्थे विकल्पज्ञेयमेव भेदमवेक्ष्य सहशब्दः, विकल्पविषयत्वमन्तरेण शब्दार्थत्वाभावात् । स च विकल्पविषयो भेदो नील-द्धियोरपि अस्ति, 'नीलं दृश्यते' इति भेदावमर्शात् ।
नैक्यव्यालेविरुद्धता ॥ यत् पुनरुच्यते 'विरुद्धो हेतुः स्यात् ' इति तत् पापात् पापीय: । साध्यविपर्ययव्यापनाद् विरुद्धत्वं भवति, न च सहोपलम्भो भेदेन व्याप्तः, अपि तु एकत्वनैव" [ ] इति, तदपि निराकारि। 1 विनिश्चयसूत्र-टि० ॥ 2 बौद्ध एव यच्छब्देन नैयायिकमतमाशङ्कते-टि० ॥ 3 तुर्यपाद: -टि०॥