SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ 132 M. Jambūvijaya इति शब्देन निर्दिश्य तदनन्तरं ये ये पाठा उद्धृताः तेषां निर्देशः " " एतचिह्नान्तर्विहितः, तदनन्तरं यतो यतो बौद्धग्रन्थान् ते पाठा उद्धृताः तेषां मूलस्थानानां निर्देश: [ ] एतादृशे कोष्ठकेऽस्माभिर्विहितः, यत्र तु मूलस्थानानि न लब्धान्यस्माभिः तत्र [ ] एतादृशानि चतुरस्रकोष्ठकानि रिक्तानि स्थापितानि । द्रव्यालंकारटीकायामधस्ताद् लिखितं प्राचीनं विशिष्टं टिप्पणमपि टि० इति संकेतेन तत्र तत्र निर्दिष्टमस्मामिः। धर्मकीर्तिविरचितायाः सम्बन्धपरीक्षायाः प्रमाणविनिश्चयात् धर्मोत्तरविरचितप्रमाणविनिश्चयटीकातश्चानेके पाठा अत्रोद्धृताः, किन्तु ते ग्रन्थाः सम्प्रति संस्कृतभाषायां नोपलभ्यन्ते, किन्तु प्राचीनकाले भोटभाषायां विहिता अनुवादा Tibetan translations एव सम्प्रति लभ्यन्ते, अतो भोटभाषानुवादेषु गवेषणां विधाय तस्य तस्य उद्धृतपाठस्य भोटभाषानुवादा अपि पृथक् परिशिष्टे Appendix अस्माभिर्दर्शिताः । इदं तु ध्येयम्-प्रमाणविनिश्चयटीकाया अतिविस्तृतत्वात् सम्प्रति समयाभावाच्च द्रव्यालंकारटीकायामुद्धता बहवः पाठाः प्रमाणविनिश्चयटीकायां विद्यमाना अपि अस्माभिर्न लब्धाः । किन्तु केनचित् संशोधन विदुषा यदि तद्गवेषणार्थ प्रयत्नः करिष्यते तदाऽवश्यं स फलेग्रहिर्भविष्यति, यतस्तत्र तत्र द्रव्यालंकारटिप्पणेषु ग्रन्थकाराभ्यामेव 'वृद्धधर्मोत्तरः, धर्मोत्तरानुमानम् , धर्मोत्तरवार्तिकम् ' इत्यादि लिखितमेव वर्तते। न्यायबिन्दुटीका लघुधर्मोत्तरनाम्ना जैनेषु प्रसिद्धा, प्रमाणविनिश्चयटीका च बृहद्धर्मोत्तरनाम्ना वृद्धधर्मोत्तरनाम्ना वा प्रसिद्धा । यदा द्रव्यालंकारः सटीक: प्रकाशितो भविष्यति तदा केपाश्चिद् . बौद्धग्रन्थानां भोटभाषानुवादानां मूलसंस्कृतपाठगवेषणे विदुषां महत् साहायकमाचरिष्यति । ___ जापानदेशे प्रकाशिताः Peking edtion इति प्रसिद्धा भोटभाषानुवादा: Tibetan translations अस्मन्मित्रस्य स्व. हिदेनोरी कितागावा (Prof. Hidenori Kitagawa, Nagoya, Japan) इत्यस्य साहाय्येन लब्धाः । प्रमाणविनिश्चयस्य Choni edition रूपा प्रतिकतिस्तु Dr. Walter H. Maurer इत्यस्य साहाय्येन Congress Library, Washington U. S. A. इत्यतो लब्धा । मम मित्रवर्याणां स्व. Prof. Dr. E. Frauwallner इत्येषां शिष्याभ्यां Prof Dr. Tilman Vetter तथा Prof. Dr. Ernst Steinkellner इत्याभ्यां प्रकाशितो प्रमाणविनिश्चयस्य प्रथम-द्वितीयपरिच्छेदावपि अत्रोपयुक्तावस्मामिः, तथापि पृष्ठनिर्देशः Peking editon अनुसारेणेव कृत इति ध्येयम् ।
SR No.212319
Book TitleDravyalankara Swopagna Tika
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherJambuvijay
Publication Year
Total Pages21
LanguageSanskrit, Hindi
ClassificationArticle & 0_not_categorized
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy