________________
Jainacarya-Sri-Hemacandrasuri-mukhyasisyābhyām...
131
विद्यते । किन्तु दुर्दैवात् प्रथमप्रकाशस्य टीका तत्र न विद्यते, केवलं द्वयोरेव द्वितीयतृतीयप्रकाशयोष्टीका तत्रास्ति । अस्मिश्चादर्श मूलं नास्ति, केवलं टीकैव विद्यते, किन्तु टिप्पणे तानि तानि सूत्राणि तत्र तत्र निर्दिष्टानि । अस्याष्टीकाया: New Catalogue of Sanskrit and Prakrit Manuscripts JESALMER COLLECTION (L. D. Series 36, L. D. Institute of Indology, Ahmedabad-9 1972) इत्यनुसारेण क्रमाकं ३६६ वर्तते। द्वितीये परिच्छेदे पत्राणि १-१९७। तृतीये परिच्छेदे पत्राणि १-११३ ।
द्रव्यालङ्कारसूत्रस्य विक्रमसंवत् १४९२ वर्षे लिखितः पृथक् एक आदर्शः 'अहम्मदाबाद' नगरे ' हाजापटेलनी पोल' मध्ये 'संवेगीनो उपाश्रय' इत्यस्मिन् जैनस्थाने विद्यते, पत्राणि १-१२ । अपर आदर्शो राजस्थाने 'बेडा' नगरे विद्यते, पत्राणि १-१३, अत्र लेखनसमयनिर्देशो नास्ति, किन्तु अर्वाचीनोऽयमादर्शो भाति । इमो द्रव्यालङ्कारस्य हस्तलिखितादी ग्रन्थकाररचितप्रथमादर्शानुसारेण, यत आदी विरचिते द्रव्यालङ्कारे ग्रन्थकाराभ्यामेव क्वचित् क्वचित् संशोधनमपि विहितम् , एतच संशोधितं द्रव्यालङ्कारसूत्रं जेसलमेरनगरे यष्टीकाया आदर्शों वर्तते तत्र टिप्पणेषु तत्र तत्र निर्दिष्टं ग्रन्थकाराभ्याम् ।
आदौ लिखितां प्राचीनसूत्रपाठानुसारिणीमपि वृत्तिं तत्र तत्र मण्या निरस्य संशोधितसूत्रपाठानुमारिणी वृत्तिरपि जेसलमेरस्थे टीकादर्श तत्र तत्र लिखिता दृश्यते । टिप्पणान्यपि ग्रन्थकाराशयस्पष्टीकरणार्थ तत्र तत्र अधस्ताल्लिखितानि वर्तन्ते। आचार्यहेमचन्द्रसूरीणां सत्तासमयः विक्रमसंवत् ११४५-१२२९ वर्तते । विक्रमसंवत् १२३० वर्षे (1174 A. D.) रामचन्द्रस्य मृत्युः, 'जेसलमेर 'नगरस्थो द्रव्यालंकारटीकाया आदर्शस्तु विक्रमसंवत् १२०२ वर्षे लिखितः, अतोऽयं ग्रन्थकाराभ्यां स्वयमेव संशोधितः प्रमाणभूतो ग्रन्थः ।
एतत्सामयनुसारेण परमात्मनः सद्गुरूणां च कृपया अस्य ग्रन्थस्य सम्पादन मया कर्तुमारब्धमस्ति मुनेः धर्मचन्द्र विजयस्य साहाय्येन । अस्य च प्रकाशनं 'लालमाई दलपतभाई भारतीय संस्कृतिविद्यामन्दिरेण' (L. D. Institute of Indology, Ahmedabad-9) कतुं निर्धारितमस्ति ।
अस्मिन् ग्रन्थे प्राचीनेभ्यो न्याय-वैशेषिक-सांख्य-बौद्धादिग्रन्थेभ्यो बहवः पाठास्तत्र तत्र उद्धृताः । तेषु ये ये पाठा बौद्धग्रन्थेभ्य उद्धृतास्तेऽत्र निबन्धेऽस्माभिः संगृहीताः। अत्र चेयं पद्धतिः-द्रव्यालङ्कारटीकाया द्वितीयप्रकाशस्य तृतीयप्रकाशस्य वा पृष्ठावं P.