________________
परिशिष्ट अमरकाव्यमें भोजनार्थ निमंत्रित मानसिंहके अपमानका विवरण
'शते षोडशके त्रिशन्मितेऽब्दे गर्जरस्थिते ।
मानसिंहो मेदपाटे आयातः पुनरुद्भटः ।।२३।। अथैकदा प्रोद्धतमानसिंहं प्राघूर्णिकीभृतमभूतपूर्वम् । निमंत्रयामास सुग्रमंत्रः प्रतापसिंहः प्रचुरप्रतापः ।।२४॥ उदयसागरनामजलाशयप्रविलसत्तट उत्कटमानसः । रसवतीकरणाय तदादिशत् द्विज(ज)नानवनीशशिरोमणि : ॥२५॥ तदा नरैस्तत्र तु पाकशाला कृता प्रयुक्ता सकलैव शाला । मिष्टे: शुभान्नैघृतपक्वयुक्तैर्ले ह्यादिपेयादिक भोज्य सं'....." ॥२६।। आकारितस्तत्र तु मानसिंहः समागतो भाग्यमिहेति जानन् । सुभोजनं राणमहीश्वरेण सहकपंक्तौ मम भावि तस्मात् ॥२७॥ मुदोपविष्टः सुविशिष्टशिष्टः कुलीनराजन्यपवित्रपंक्तौ । महानसे वीरगणैः समेतः स मानसिंहो विरराज सिंहः ॥२८॥ प्रतापसिंहो बहुवस्तुसिद्धयै, उच्चैः समुत्सार्य विशालचालं । बाह्वोः समाज्ञापयति स्वकीयसमस्तलोकेभ्यः उदारवीरः ॥२९॥ स्वर्णादिपात्रेषु समस्त वस्तूनि सूदैः परिवेषितानि । अपूर्वरूपानि च तानि दृष्ट्वा सुविस्मयं प्राप स मानसिंहः ॥३०॥ स मानसिंहो निजगाद वाक्यं प्रतापसिंहं प्रति देव शीघ्र। आयाहि पंक्तौ शुभभोजनार्थमुच्चासने चोपविशत्वितीश ॥३१॥ प्रतापसिंहस्तु तदीयवाक्यं चक्रे श्रुतं वाश्रुतवत्तदैव । पुनर्जगादाथ स मानसिंहस्तदेव वाक्यं महता स्वरेण ॥३२॥ राणेश्वरो मे जठरे स्मिष्टभार इत्यब्रवीत्कूर्म नरेशपुत्र । कुमारस्त्वायात्त्ववदत्तदेति प्रतापसिंहस्तु पुनर्बभाषे ।।३३।। स वस्तुसिद्धि विदधाति धन्यां श्रुत्वाखिलं निर्मलमानसः सः । ज्ञात्वा तथैवेति च मानसिंहश्चकार सद्भोजनमादरेण ||३४|| वीरैः प्रवृद्धस्तु तदा तदीयः प्रतापसिंहाशयशौर्यविद्भिः । कृतो विचारो मनसा दृशा च मिथो न युक्तात्र भुजिक्रियेति ॥३५॥
१. गते शते षोडश एकहीन त्रिशद्गतेऽब्दे शुभ फाल्गुनेऽभूत् ।
विविध : ३३१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org