________________
જ્ઞાનાંજલિ
ततश्च तेषां पदपमहंसः, समग्रगच्छाभरणावतंसः । धनेश्वरः सूरिरभूत् प्रशस्यः, शिष्यः प्रभावप्रथितो
यदीयः ॥५॥ निःशेषागमतर्कशास्त्रसकलालङ्कारसंविनिधेर्यस्येन्दोरिवदीधितीवितमसो वाचोऽमृतस्यन्दिनीः । आस्वाचामितभक्तिसमभविकाः स्वात्मानमस्ताशुभं मन्यन्ते स्म सुरापवर्गरुचिरश्रीप्रात्रमत्युत्तमम् ॥६॥ श्रीचन्द्रमरिनामा शिष्यस्तेषां बभूव गुरुभक्तः । तेन कृता स्पष्टार्था श्राद्धपतिक्रमणवृत्तिरियम् ॥७॥ करनयनसूर्यवर्षे १२२२ प्रातः पुष्यामधुसितदशम्याम् । धृतियोगनवमकक्षे समर्थिता प्रकृतवृत्ति
रियम् ॥८॥ उत्सूत्रं यद् रचितं मतिदौर्बल्याद् कथश्चनापि मया । तच्छोधयन्तु कृतिनोऽनुग्रहबुद्धिं मयि विधाय ॥९॥ यावत् सुमेरुशिखरी शिखरीकृतोऽत्र, नित्यैर्विभाति जिनबिम्बगृहैमनोज्ञैः । श्रीचन्द्रसरिरचिता भुवि तावदेषा, नन्द्यात् प्रतिकमणवृत्तिरधीयमाना ॥१०॥ प्रत्यक्षरं निरूप्यास्य ग्रन्थमानं विनिश्चितम् । श्लोकपञ्चाशदुत्तरशतान्येकोनविंशतिः ॥११॥ ॥ ग्रन्थानम् १९५० ॥
(४) जीतकल्पबृहच्चूर्णिदुर्गपदव्याख्या । रचनासंवत् १२२७ । प्रशस्ति--
इति जीतकल्पचूणिविषया व्याख्या समाप्ता । जीतकल्पबृहच्चूणौं व्याख्या शास्त्रानुसारतः । श्रीचन्द्रसरिभिधा स्व-परोपकृतिहेतवे ॥१॥ मुनि-नयन-तरणिवर्षे १२२७ श्रीवीरजिनस्य जन्मकल्याणे । प्रकृतग्रन्थकृतिरियं निष्पत्तिमवाप
रविवारे ॥२॥ सङ्घ-चैत्य-गुरूणां च सर्वार्थप्रविधायिनः । वशाऽभयकुमारस्य वसतौ दृब्धा सुबोधकृत् ॥३॥ एकादशशतविंशत्यधिकं श्लोकप्रमाणग्रन्थानम् । ग्रन्थकृतिः प्रविवाच्या मुनिपुङ्गवसूरिभिः सततम् ॥४॥ यदिहोत्सूत्रं किश्चिद् दृब्धं छमस्थबुद्धिभावनया । तन्मयि कृपानुकलितैः शोध्यं गीतार्थविद्वद्भिः ॥५॥
समाता चेयं श्रीशीलभद्रप्रभु-श्रीधनेश्वरमरिपादपद्मचञ्चरीकश्रीश्रीचन्द्रसूरिसंरचिता जीतकल्पबृहच्चूर्णिदुर्गपदविषया निशीथादिशास्त्रानुसारतः सम्प्रदायाच्च सुगमा व्याख्येति । यावल्लवणोदन्वान् यावन्नक्षत्रमण्डितो मेरुः । खे यावच्चन्द्रार्को तावदियं वाच्यतां भव्यैः ॥१॥
(५) नन्दीसूत्रलघुवृत्तिदुर्गपदव्याख्या । प्रशस्ति - श्रीधनेश्वरसूरीणां पादपद्मोपजीविना । नन्दिवृत्तौ कृता व्याख्या श्रीमच्छीचन्द्रसरिणा ॥१॥ इति समाप्ता श्रीशीलभद्रप्रभु-श्रीधनेश्वरसरिशिष्यश्रीश्रीचन्द्रन रिविरचिता नन्दिटीकाया
दुर्गपदव्याख्या ॥ नन्दिवृत्तिदुर्गपदव्याख्यान्ते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org