________________
सावित्र्युपनिषद्
सावित्र्युपनिषद्वद्यचित्सावित्रपदोज्ज्वलम् । प्रतियोगिविनिर्मुक्तं रामचन्द्रपदं भजे ॥१॥ सावित्र्यात्ना पाशुपतं परं ब्रह्मावधूतकम् । त्रिपुरातपनं देवी त्रीपुरा कठभावना ॥२॥
ॐ आप्यायन्तु ममाक्षन्गानि वाक्प्राणश्चक्षः श्रोत्रमथो बल-मिन्द्रियाणि च । सर्वाणि सर्वं ब्रह्मोपनिषदं माहं ब्रह्म नि-राकुर्यां मा मा ब्रह्म निराकरोदनिराकरणम. स्त्वनिराकरणं मेऽस्तु । तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु ॥ ।
ॐ शान्तिः शान्तिः शान्तिः ॥
हरिः ॐ ॥ कः सविता क सावित्री अग्निरेव सविता पृथिवी सावित्री स यत्राग्निस्तत्पृथिवी यत्र वै पृथिवी तत्राग्निस्ते द्वे योनी तदेकं मिथुनम् ॥१॥ क: सविता का सवित्री वरुण एव सविताप: सावित्री स यत्र वरुण-स्तदापो यत्र वा आपस्तद्वरुणस्ते द्वे योनिस्तदेकं मिथुनम् ॥२॥
कः सविता क सावित्री वायुरेव सविताकाशः सावित्री स यत्र वायुस्तदाकाशो यत्र वा आकाशस्तद्वायुस्ते द्वे योनिस्तदेकं मिथुनम्