SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ अथ प्रशस्तिः शिष्यो जंबू महामुनेः प्रभव इत्यासीदमुष्यापि च । श्रीशय्यंभव इत्यमुष्य च यशोभद्राभिधानो मुनिः ॥ संभूतो मुनि भद्रबाहुरिति च द्वौ तस्य शिष्योत्तमौ । संभूतस्य च पादपद्ममधुलिद् श्रीस्थूलभद्राह्वयः ॥ १ ॥ वंशक्रमागतचतुर्दशपूर्वरा कोशस्य तस्य दशपूर्वधरो महर्षिः । नाम्ना महागिरिरिति स्थिरतागिरीन्द्रो, ज्येष्ठोऽन्तिषत्समजनिष्ट विशिष्टलब्धिः ॥ २ ॥ शिष्योऽन्यो दशपूर्वभृन्मुनिवृषो, नाम्ना सुहस्तीत्यभूयत्पादांबुजसे वनात्समुदित-प्राज्यप्रयोधर्द्धिकः ॥ चक्रे संप्रतिपार्थिवः प्रतिपुर- ग्रामाकरं भारते । जिनचैत्य मंडितमिला- पृष्टं समन्तादपि ॥ ३ ॥ १ नास्ति CI. 1. प्रतिषु प्रशस्तिः ॥ -- ॥ ४०५
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy