________________
७= = मध्यमस्याद्वादरहस्यं खण्ड ३ का. २१ मुक्तावलीकारविश्वनाथभङ्गवचनप्रतिक्षेपः
स्पर्शयोः पृथग्नियामकत्वेनैवाऽयोग्याऽचाक्षुषाऽस्पार्शन निर्वाहातदनुरोधेन विशिष्य प्रत्यासत्तित्वाऽकल्पनात्, घाणादौ पृथिवीत्वादेर्मानाभावेनेन्द्रियत्वस्य जातित्वात् ।
ॐ गयलता *
| समवायेनीद्भूतरूपस्पर्शयो: कारणत्वान्निरुक्तप्रत्त्यासत्त्या शब्दे प्रत्यक्षं नोत्यनुमर्हति स्याद्वादिनये केचिद्भूत स्पर्शसचेऽपि शब्दत्वावच्छिन्नस्योद्भूतरूपशून्यत्वात् । किञ्च यस्य द्रव्यस्य लौकिकं प्रत्यक्षं जायते तस्य लौकिकं चाक्षुषं स्पार्शनं च भवितुमर्हत एव, लौकिकसाक्षात्कारस्वरूपयोग्यद्रव्यत्वस्य लौकिकचाक्षुपस्पर्शनी मयस्वरूपयोग्यत्वव्याप्यत्वात् । न च लौकिकमानसविषये आत्मनि व्यभिचार इति वाच्यम्, बहिरिन्द्रियजन्यस्य प्रत्यक्षस्य विवक्षितत्त्वात् । ततश्च शब्दस्य बाह्येन्द्रियजली किकप्रत्यक्षउद्भुतरूपस्पर्शयाः, स्वरूपयोग्यद्रव्यत्वं तु सति सत्रिकर्षे चाक्षुषत्वत्पार्शनत्वापत्तिरपि दुर्वास स्वादित्याशङ्कायामाह - रूपस्पर्शयोः = पृथनियामकत्वेनैवेति । द्रव्यनिष्ठवहिरिन्द्रियजलीकिकविषयतया नित्वावच्छिन्नं प्रत्येव समवायेनोद्भूतस्पर्शस्य चाक्षुषत्वावच्छिन्नं प्रत्येव च समवायेनोद्भूतरूपस्य पृथक्कारणत्वं न तु प्रत्यक्षत्वावच्छिन्नं प्रति मिलितोभयस्य । निरुक्तसम्बन्धेन प्रत्यक्षत्वस्योद्भूतरूपस्पर्शकार्यतानवच्छेदकत्वात्स्वसंयोगप्रत्यासत्या श्रीरेन्द्रियेण शब्दसाक्षात्कारो निरयास एवं । न च तथापि शब्दस्य चाक्षुषत्व स्पार्शनत्वापत्तिरिति शङ्कनीयम्, लौकिकचाक्षुषस्पार्शनी भयस्वरूपयोग्यत्वव्याप्यतावच्छेदकत्वं वहिरिन्द्रियजलौकिप्रत्यक्षस्वरूपयोग्यत्वविशिष्टद्रव्यत्वत्वे द्रव्यत्वविशिष्टलौकिकचाक्षुषस्पार्शनी भय स्वरूपयोग्यतात्वं वा ? इत्यन्त्राऽचिनिगमात् पिशाचादी व्यभिचाराच । न हि पिशाचपादप्रहार सहने पिशाचस्यादर्शन सत्यपि निपुणतरं निभालनेऽपि तचाक्षुषं भवति ।
1
वस्तुत इन्द्रियादिवत् स्वरूपाऽयोग्यत्वादेव शब्दस्यास्पार्शनाचाक्षुषत्वनिर्वाह इत्याशयेनाह अयोग्याचाक्षुपाs| स्पार्शननिर्वाहात् = चाक्षुष - स्पार्शनस्वरूपाऽयाग्यशब्दगीचरचाक्षुपस्पर्शनानुत्पादनिर्वाहसम्भवात । उद्भूतरूपशून्पत्वान्न शब्दस्य शब्दगोचरचाक्षुपत्वम् । त्वगिन्द्रियजन्य- प्रत्यक्षस्वरूपायांम्पत्वादेव न तत्स्पाइनित्वप्रसङ्गः । अत एव तदनुरोधेन चाक्षुषस्पार्शनानुत्पादान्धधानुपपत्त्या विशिष्य प्रत्यासत्तित्वाऽकल्पनात् = श्रीत्रसंयुक्तसमवेतसमवायेऽतिरिक्तलौकिकसन्निकर्षवाकल्पनात् ।
किञ्चास्मन्नये इन्द्रियवर्गणादिजन्यतावच्छेदकतया सिध्यत्रिन्द्रियत्वं जातिस्वरूपमेव न तु स्मृल्पजनक - ज्ञानजनकमन:| संयोगाश्रयत्वादिस्वरूपम् । तच प्रकृष्टज्ञानकारणत्वाभिव्यङ्ग्यं द्रव्यनिष्ठमित्यभ्युपगम्यते । न च पृथिवीत्वादिना साङ्कथं स्यात्, घटादाववर्तमानस्य पृथिवीत्वशून्ये चक्षुषि वर्तनानस्येन्द्रियत्वस्य पार्थिवप्राणादिवृत्तित्वादिति वाच्यम्, प्राणादी पृथिवीत्वादेः मानाभावेनेन्द्रियत्वस्य जातित्वात् । एतेन शब्देतद्भुतविशेषगुणानाश्रमले सति ज्ञानकारणमनः संयोगाश्रयत्वमिन्द्रियत्वमिति (का.५८ मु.३,४३६) मुक्तावलीकारवचनमपाकृतम् । न च प्राणादेः पर्थिवादिभिन्नत्वे मानाभावेन विनिगमनाविरह इति वाच्यम्, 'प्राणादिकं पृथिव्यादिभ्यां भिद्यते इन्द्रियत्वात् मनोवन' इत्यस्य जागरूकत्यात् । न च तर्हि मनः स्वरूपमेव प्राणादिकं प्रसज्येतेति वक्तव्यम्, महत्त्वानमनसोऽपि भिद्यते घटवत्। युक्तमहतः पृथिव्यादेः रूपरसगन्धाविन्यतमाद्भवनियमात् 'प्राणेन्द्रियं पार्थिवं रूपादिषु मध्ये | तादृशस्य च प्राणादी प्रत्यक्षवाधितत्वात् न तस्य पार्थिवत्वादिकं सम्भवति । एतेन -> गन्धस्यैवाऽभिव्यञ्जकत्वात् कुङ्कुमगन्धाऽभिव्यञ्जकतत्त् न च दृष्टान्तं स्वीयरूपादिव्य अकत्वादसिद्धिरिति वाच्यम्, परकीयरूपाद्यव्यञ्जकत्वस्य तदर्थत्वात् - (का.३८ मु.पू. ३०७ ) इति विश्वनाधवचनमपाकृतम्, अप्रयोजकत्वात् प्राणघृतादीनामक -
1
माना जाय तब तो शब्द का चाक्षुप और स्पार्शन प्रत्यक्ष होने लगेगा, क्योंकि जिस द्रव्य का बहिरिन्द्रियजन्य लौकिक प्रत्यक्ष होता है उसका चाक्षुपादिसामग्री (चक्षुः मत्रिकपदि) का समवधान होने पर चाक्षुष और स्पार्शन प्रत्यक्ष अवश्य होना है, जैसे घट, पट आदि । अतः शब्दद्रव्यपक्ष में शब्द के चानुष एवं स्पार्शन की आपत्ति मुँह फाडे खड़ी रहेगी" - तो यह भी इसलिए निराधार हो जाती है कि चाक्षुप प्रत्यक्ष का नियामक है उद्भूत रूप और स्पार्शन प्रत्यक्ष का नियामक है उत स्पर्श, जो शब्द में नहीं रहते हैं । अतएव चाप एवं स्पार्शन लौकिक साक्षात्कार के लिए आत्मादि की भाँति शब्द अयोग्य है। तब शब्द के चाक्षुप एवं स्पार्शन प्रत्यक्ष की आपत्नि को अवकाश कैसे मिलेगा ? अतः शब्द का केवल श्रावण प्रत्यक्ष दो और चाक्षुपादि प्रत्यक्ष न हो उसके लिए पृथक लौकिकप्रत्यासत्ति की कल्पना का गौरव भी स्याद्वानी के पक्ष में प्रसक्त रहेगा। दूसरी बात यह है कि हमारे मत में इन्द्रियत्व भी जातिस्वरूप ही है, न कि उपास्वरूप । यहाँ यह शंका हो कि 'इन्द्रियत्व को जाति मानने पर पृथ्वीत्व आदि के साथ सांकर्य होगा, क्योंकि पृथ्वीत्वशुन्य चक्षु में इन्द्रियत्व रहता है और इन्द्रियत्वशून्य घट में पृथ्वीत्व रहता है तथा प्राणेन्द्रिय में इन्द्रियत्व और पृथिवीत्व दोनों रहते हैं'