SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ * समभङ्गीद्वैविध्यम् * अत एव च प्रकृतसप्तभङ्ग्म्यां वक्तव्यत्वमपि नाधिकं, सप्तकल्पनावतीर्णप्रश्नानुन्मज्जनादिति ध्येयम् । सा चेयं सकलादेशस्वभावा विकलादेशस्वभावा च । तत्र "प्रमाणप्रतिपन्नाऽनन्त जयलता = दुर्वार एवं अवक्तव्यत्ववत् वक्तव्यत्वस्यापि बोधसम्भवादित्याशङ्कां दूरीकर्तुमाह अत एवेति प्रत्युत्तरजाऽवबोधस्य बुभुत्सितगोचरत्वादेवेति । प्रकृतसप्तभङ्ग्यां = 'घटः स्यात् सन्नेव, स्यादसन्नेवेत्यादिरूपायां वक्तव्यत्वमपि नाधिकं = नाष्टमभङ्गविषयत्वापन्नम् । हेतुमाह सप्तकल्पनावतीर्णप्रश्नानुन्मज्जनादिति । अयं भाव: 'घट: सर्वथा सत्र बा ?' इत्यादिरू॒गयां जिज्ञासायां सत्यां वक्तव्याणि सतो घटस्य बुभुत्सितेन सत्त्वादिरूपेणैव भानं भवति न तु वक्तव्यत्वेन रूपेण, यथा 'रामो राजपुत्री न बा ?' इति प्रश्ने सति 'रामो राजपुत्र' इत्युत्तरेण मनुष्यस्यापि सतो रामस्य राजपुत्रत्वेन भानं भवति; न तु मनुष्यत्वेन रूपेण तस्य प्रश्नेनाऽबुभुत्सितत्त्वात् । अत एव राजपुत्रत्वस्य मनुष्यत्वव्याप्यत्वेऽपि दर्शितोत्तरेण मनुष्यत्वस्य न शाब्दबोधगोचरत्वम् । अनुमानेन तु तज्ज्ञानं भवत्यपि । तद्वदेव प्रकृतसप्तभङ्ग्यां सप्तधर्मप्रकारकबुभुत्सालब्ध| जन्मपर्यनुयोगेन वक्तव्यत्वस्याऽनाक्षेपात् प्रत्युत्तरेण न तच्छाब्दबोधो भवितुमर्हति । अतो नाऽष्टमभङ्गप्रसङ्गः । सप्तभङ्गीद्वैविध्यप्रतिपादनार्थमुपक्रमते - सा चेयमिति । प्राग्व्यावर्णितस्वरूपा चेयं सप्तभङ्गीति । सकलादेशस्वभावा - सकलादेशलक्षणा, विकलादेशस्वभावा विकलादेशलक्षणा चेति । सकलादेशमुपदर्शयितुं प्रमाणनयतत्त्वालोकालङ्कारसूत्रमाह प्रमाणेति । रत्नाकरावतारिकायां तद्वयाख्या चैवम् - "कालादिभिरष्टाभिः कृत्वा यदभेदवृत्ते धर्मधर्मिणोरपृथग्भावस्य प्राधान्यं तस्मात् । कालादिभिः भिन्नात्मनामपि धर्मधर्मिणामभेदाध्यारोपाद्वा समकालमभिधायकं वाक्यं सकलादेश: प्रमाणवाक्यमित्यर्थः । अयमर्थः यौगपद्येनाऽशेषधर्मात्मकं वस्तु कालादिभिरभेदवृत्त्या अभेदोपचारेण वा प्रतिपादयति सकलादेशः, तस्य प्रमाणाधीनत्वात् । विकलादेशस्तु क्रमेण भेदोपचाराद् भेदप्राधान्याद्वाऽभिधत्ते तस्य नयायत्तत्वात् । कः पुनः क्रमः ? किं वा यौगपद्यम् १ यदाऽस्तित्वादिधर्माणां कालादिभिः भेदविवक्षा, तदैकस्य शब्दस्याऽनेकार्थप्रत्यायने शक्त्यभावः । यदा तु तेषामेव धर्माणां कालादिभिरभेदेन वृत्तमात्मरूपमुच्यते, तदैकेनाऽपि शब्देनैकधर्म प्रत्यायनमुखेन तदात्मकतामापत्रस्याऽनेकादशेषरूपस्य वस्तुनः प्रतिपादनसम्भवात् यौगपद्यम् । के पुनः कालादय: १ ( १ ) काल:, (२) आत्मरूपं, (३) अर्थ: (४) सम्बन्ध:, (५) उपकार:, (६) गुणिदेश: (७) संसर्गः, (८) शब्द इत्यष्टौ । तत्र स्याज्जीवादिवस्त्वस्त्येवेत्यत्र यत्कालमस्तित्वं तत्कालाः शेषानन्तधर्मा वस्तुन्येकत्रेति तेषां कालेनाऽभेदवृत्तिः १ यंदेव चाऽस्तित्वस्य तद्गुणत्वमात्मरूपम्, तदेव चान्याऽनन्तगुणानामपीत्यात्मरूपेणाऽभेदवृत्तिः २। य एव चाधारोऽर्थो द्रव्याख्योऽस्तित्वस्य स एवान्यपर्यायाणामित्यर्थेनाऽभेदवृत्ति: ३ | य एव चाविष्वग्भावः कथञ्चित्तादात्म्यलक्षणः सम्बन्धोऽस्तित्वस्य स एवाशेषविशेषाणामिति सम्बन्धेनाऽभेदवृत्तिः 7 W * सच्वसप्रभंगी में वक्तव्यत्व धर्म अतिरिक्त नहीं २८५ अत एव च इति । यहाँ यह शंका हो कि “घटः स्यादस्ति, स्यानास्ति, स्यादस्ति नास्ति च स्यादवक्तव्यः इत्यादिरूप से जो सप्तभंगी प्रवृत्त होती है उसमें चतुर्थ भंग में जैसे अवक्तव्यत्व धर्म का प्रवेश होता है, ठीक वैसे ही उसके प्रतिपक्ष वक्तव्यत्व धर्म का भी सप्तभंगी में समावेश एवं उसका ज्ञान भी होना चाहिए । वैसा होने पर अष्टभंगी की पुन: आपत्ति होगी" - तो यह ठीक नहीं है । इसका कारण यह है कि सप्तभंगी के प्रयोजक सात प्रश्न हैं, जो सात प्रकार की शंका एवं जिज्ञासा से प्रयोज्य हैं, उनसे वक्तव्यत्व धर्म का आक्षेप नहीं होता है, क्योंकि वह शंका, जिज्ञासा और प्रश्न का विषय नहीं है । जिस विषय में शंका, जिज्ञासा, प्रश्न होते नहीं हैं, उसका प्रत्युत्तर एवं ज्ञान नहीं हो सकता । पृच्छक को सत्त्वादि धर्म की शंकादि है, न कि वक्तव्यत्व की । अतः वक्तव्यत्व धर्म का सत्त्वसप्तभंगी में समावेश हो सकता नहीं है । इसलिए आठवें धर्म या अष्टभंगी की आपत्ति नहीं है । इस तरह सप्तभंगी की सार्वत्रिकता अव्याहत है यह सिद्ध होता है । * सप्तभंगी के दो भेद सा चेयं इति । उपर्युक्त सप्तभंगी के दो भेद है सकलादेश सप्तभंगी और बिकलादेश सप्तभंगी । इनमें सकलादेश सप्तभंगी उस वचन को कहते हैं, जो वचन प्रमाणसिद्ध अनन्तधर्मात्मक वस्तु का कालादि के द्वारा अभेदवृत्ति प्राधान्य से या अभेदोपचार से एक ही काल में प्रतिपादक होता है । आशय यह है कि प्रमाण द्वारा यह निश्चित चुका है कि | वस्तु अनन्त धर्मात्मक है । वस्तु की अनन्तधर्मात्मकता ही उसकी समग्रता है, जो वस्तु में एक ही काल में विद्यमान रहती -
SR No.090487
Book TitleSyadvadarahasya Part 2
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDivya Darshan Trust
Publication Year
Total Pages370
LanguageHindi
ClassificationBook_Devnagari & Philosophy
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy