________________
* जिनेन्द्रवचने प्रामाण्यसमभङ्गीविचारः * | ते पुन: 'अस्ती'तिप्रतीतेनास्तित्वेनैव निहिं कथमस्तित्वं गच्छन्ति हस्तावलम्बदायिन: ?
सङ्गीता सप्तभणी यदि निखिलजगन्न्यस्तवस्तुव्यवस्था, मूर्य फूलंका : कतु तहभियं तत्प्रमाणव्यवस्था ।
येन स्यादप्रमाणं भुवनगुरुवच: सर्वथा न प्रमाणं, तस्मादेकान्तवादो हित इति गदति स्पष्टमेकान्तवादी ॥१॥
=-=* जयलता * लक्षणनिकृष्टावद्यग्रस्तान्तःकरणाः । तदभिनिविष्टत्वमेव काकुन्यायेनाविष्करोति- ते इति । 'अस्ती' तिप्रतीतेः = स्वरूपावच्छिन्नाऽस्तित्वप्रकारकधियः, विषयविधया नास्तित्वेनैव निर्वाहे सम्भवे कथं अस्तित्वे गच्छन्ति हस्तावलम्बदायिनः ? स्वरूपावच्छिन्नास्तित्वहस्तालम्बनग्रहीतारो न न्यायसभायां सुष्ठ भ्राजन्त इत्यर्थः । स्वरूपास्तित्वेन पररूपनास्तित्वापलापे पररूपनास्ति त्वेन स्वरूपास्तित्वनिराकरणमपि न दुष्करम् । न चैवम्, इति स्वास्तित्ववत् पररूपावच्छिन्ननास्तित्वमपि प्रामाणिकमित्यभ्युपेयम् । कथमन्यथा हेतोः नैरूप्यं पञ्चरूपत्वं वा परस्याऽपि सम्भवेत् ? सपक्षास्तित्वेनैव विपक्षनास्तित्वप्रतीतेर्निवाहसम्भवात्, बिपक्षनास्तित्वविरहे तत्सत्त्वप्रसङ्गाच्चेति दिक् ।
पद्येन परमतमपसारयितुमुपन्यस्यति- सङ्गीतेति । सप्तभङ्गी यदि निखिलजगन्न्यस्तवस्तुव्यवस्था = सम्पूर्णविश्वस्य न्यस्ता = निहिता वस्तुव्यवस्था यस्यां सा, इति संगीता, तदा इयं तत्प्रमाणव्यवस्था = सप्तभङ्गीप्रमाणव्यवस्था, कूलंकषायाः = जलभृतनद्याः मूलं तटं कपतु । सप्तभङ्गया अखिलप्रमेयव्यवस्थापकत्वे प्रमाणव्यवस्था विप्लवेतेत्यर्थः । हेतुमाह- येन कारणेन भुवनगुरुवचः = जिनेन्द्रवचनं अप्रमाणं अपि स्यात् = भवेत् यद्वा स्यादप्रमाणं = कथञ्चिदप्रमाणं, यतः सा न सर्वथा प्रमाणं, भगवद्भारत्या; सर्वथा प्रमाणत्वे सप्तभङ्गीभङ्गप्रसतात, 'तदपि स्यात्प्रमाणं स्यादप्रमाणमित्युपगमे च प्रामाण्यव्यवस्थापन दुर्घटं स्यात्, अनवधारणात् । ततः किमित्याह - तस्मात् = प्रामाण्यव्यवस्थान्यथानुपपत्तेः, एकान्तवाद एब हित इति स्पष्टं एकान्तवादी सदसि गदति = जल्पति ।
अयमत्र एकान्तवादिनोऽभिप्रायः 'जिनेन्द्रबचनं स्यात्प्रमाणं स्यादप्रमाणमि' त्यङ्गीकारे साङ्कर्यादिदोषाऽनिराकरणेन निष्कम्पप्रवृत्त्यादिकं नोपपद्येत, 'अर्हद्वचः प्रमाणमेवे'त्यङ्गीकारे च तत्र मानत्वावच्छिन्नप्रतियोगिताका योगव्यवच्छेदापातेनैकान्तवादप्रवेशप्रसङ्गात् । एवकारमर्यादाऽत्रैवं ज्ञेया, विशेष्यसङ्गतैवकारस्याऽन्ययोगव्यवच्छेदोऽर्थः यथा 'पार्थ एव धनुर्धर' इत्यादौ एवकारार्थस्याऽन्ययोगव्यवच्छेदस्यैकदेवोऽन्यत्वे प्रतियोगितासम्बन्धेन पार्थान्वयः, पार्थान्यनिरूपितबत्तित्वाभावान्वयो विशेषणेकदेशे धनुर्धरत्वे तादृशधनुर्धरत्ववदन्वयोऽभेदसम्बन्धेन पार्थपदार्थे । ततः पार्थान्या वृत्तिधनुर्धरत्वाश्रयाऽभिन्नः पार्थ इति बोधो जायते । विशेषणसङ्गतैवकारार्थोऽयोगव्यवच्छेदः, यथा 'शङ्खः पाण्डुर एवे' त्यादौ । अयोगस्य सम्बन्धाभावरूपस्यैकदेशे सम्बन्धे विशेषणैकदेशस्य पाण्डुरत्वस्याऽन्चयः, अयोगव्यवच्छेदस्य च स्वरूपसम्बन्धेन विशेष्यपदार्थे शोऽन्यः । ततः पाण्डुरत्वसम्बन्धाऽभावप्रतियोगिका
अस्तित्व काल्पनिक = असत् है ।' यदि अस्तित्व से नास्तित्वगोचर प्रतीति का समर्थन करके नास्तित्व को अन्यथासिद्ध - असत् माना जाय तो तुल्य न्याय से नास्तित्व से अस्तित्वविपयक ज्ञान की उपपत्ति हो जाने से अस्तित्व भी झूठा - काल्पनिक माना जा सकता है । तो फिर चे स्वरूपास्तित्व को अपनी मान्यतारूप हस्त का आलम्बन क्यों बनाते हैं ? मतलब कि नास्तित्व से अस्तित्व का अपलाप नहीं होता है, वैसे अस्तित्व से नास्तित्व का निराकरण नहीं किया जा सकता। स्वरूपसत्त्व और पररूपाऽसत्त्व दोनों प्रामाणिक हैं।
सप्तभंगी जिनवचन में प्रवृत्त नहीं हो सकती - एकान्तवादी एकान्तवादी :- संगीता. इति । जी हजूर । आपने जिस सप्तभंगी का बयान किया है वह यदि संपूर्ण विश्व की वस्तुओं की व्यवस्थापक होगी यानी 'प्रत्येक वस्तु में वह सप्तभंगी प्रवर्त्तमान है। ऐसा माना जाय तब तो यह सप्तभंगी की प्रमाणज्यवस्था नदी के, जिसके दोनों किनारे पे पानी उभर रहा है, मूल तट में जाकर गिरेगी । अर्थात् प्रमाणव्यवस्था ही अव्यवस्थित बन जायेगी। इसका कारण यह है कि 'जिनेन्द्र का वचन प्रमाण है या नहीं ?' इस प्रश्न के जवाब में या तो जिनवचन में प्रामाण्यधर्मविषयक सप्तभंगी में यही स्याद्वादी की ओर से कहा जा सकता है कि - जिनवचन कयंचित् प्रमाण है, कथञ्चित् अप्रमाण है, कथञ्चित् प्रमाणाऽप्रमाणोभय है इत्यादि । मतलब कि तीर्थकरवचन को भी सर्वथा प्रमाण नहीं कहा जा सकता, क्योंकि जिनवचन में अपेक्षा से अप्रामाण्य भी है . यह सप्तरंगी से जाना गया है। तब तो जिनपचन