________________
* 'सर्वे शब्दाः सवार्थवाचकाः सति तात्पर्ये' इत्यत्र मीमांसा *
अथ पटपदादितः प्रमेयत्वेनाऽबोधान्न तदवच्छिन्ने शक्तिः, पस्थितिशाब्दबोधानां समानप्रकारकत्वेनैव कार्यकारणभावादिति चेत् ? किं तावता, तथापि शक्तिज्ञान पदार्थोंघटत्वादेः पटपदबोध्यतावच्छेदकत्वस्य निरपायत्वात् ।
ॐ जयलता
=
| प्रमेयत्वस्य पदपदवाच्यतावच्छेदकत्वसिद्धया घटस्य तादृशधर्मवत्त्वात्पटपदापेक्षया अभिलाप्यत्वप्रसङ्ग इति भावः । परः शङ्कते - अथेति । 'चेदित्यनेनाऽस्यान्वयः । पटपदादितः घटस्य प्रमेयत्वेन रूपेण अबोधात् विरहात् न तदवच्छिन्ने शाब्दबोधप्रमेयत्वावच्छिन्ने यावत्प्रमेय इति शक्तिः । तत्र हेतुमाह शक्तिज्ञानेत्यादि । यदि विषयतासम्बन्धेन शाब्दबोधं प्रति विषयतासम्बन्धेन पदार्थोपस्थितिशक्तिग्रहयो : कारणत्वं विषयतासम्बन्धेन पदार्थोपस्थितिं प्रति च |विषयतासम्बन्धेन सङ्केतग्रहस्य कारणत्वमित्येवं कार्य कारणभावाऽङ्गीकारेऽपूर्वव्यक्तिभानं शक्तिग्रह-पदार्थोपस्थित्पोरपेक्षितं भवेत् । न चैवमस्ति तथा सत्यवच्छेदक नियमनाय तत्तद्धर्मावच्छिन्नविषयत्वस्यैव कार्यतावच्छेदकतया कारणतावच्छेदकतया | चाऽभ्युपगमप्रसक्तौ महागौरवात् । ततश्च प्रकारतासम्बन्धेन शाब्दबोधं प्रति प्रकारतासम्बन्धेन सङ्केतग्रह-पदार्थोपस्थित्योः प्रकारतया पदार्थोपस्थितिं प्रति च प्रकारतासंसर्गेण शक्तिग्रहस्य कारणत्वमित्येवाऽभ्युपगन्तव्यम् । इत्थञ्च शक्तिग्रहपदार्थोंपस्थितिशाब्दबोधानां समानप्रकारकत्वेन कार्यकारणभावसिद्धी प्रत्येकपदस्य सर्वार्थवाचकत्वनये घटस्य पटपदवाच्यत्वेऽपि प्रमेयत्वस्य न पदपदशक्यतावकेदकत्वं पटपदेन टस्य प्रमेयत्वरूपेाऽबोधात् । यदि च प्रमेयत्वरूपेण पपदाद् घटानं स्यात् | तदा प्रकारतासम्बन्धेन तादृशशाब्दबोधस्य प्रमेयत्ववृत्तित्वसिद्धी फलबलात् प्रकारतासम्बन्धेन पटपदशक्तिग्रहस्य प्रमेयत्ववृत्तित्वसिद्ध्या प्रमेयत्वस्य पटपदनिष्ठशक्तिनिरूपितविषयतावच्छेदकत्वं सिध्येत् । न चैवमस्ति । अतो न प्रमेयत्वस्य पटपदशक्यतावच्छेदकत्वम् । अत एव पटपदशक्यतावच्छेदकधर्मवत्त्वमपि घंटे नास्तीति न घटस्य पटपदापेक्षयाऽभिलाप्यत्वप्रसङ्गः । ततश्च निरुक्तावच्छेदकधर्मवत्त्वमपि घंटे नास्तीति न घटस्य पटपदापेक्षयाऽभिलाप्यत्वप्रसङ्गः । ततश्च निरुक्ताभिलाप्यत्वं पदशक्यतावच्छेदकधर्मवत्त्वस्वरूपमेवेति अथाशयः ।
ननुवादी तन्निराकुरुते किं तावता ? इति । प्रमेयत्वस्य पटपदशक्यतानवच्छेदकत्वेन किं नश्छिन्नम् ? इत्यर्थः । तथापि शक्तिग्रह - पदार्थोपस्थिति शाब्दबोधानां समानप्रकारतासंसर्गेण कार्यकारणभावस्याऽङ्गीकारेऽपि पटपदेन घटादेः घटत्वादिरूपेण भानात् घटत्वादेः पटपदवीध्यतावच्छेदकत्वस्य = पटपदनिष्ठशक्ततानिरूपित शक्यताया अवच्छेदकत्वस्य निरपायत्वात् = अबाधात् । प्रत्येकपदस्य सर्वार्थवाचकत्वनये यदि घटत्वादिकं पटपदशक्यतावच्छेदकं न स्यात् तर्हि पटपदात् घटत्वादिरूपेण श्रादिमानं न स्यात्, प्रकारतासम्बन्धेन शाब्दबोधं प्रति प्रकारतासम्बन्धेन सङ्केतग्रह-पदार्थोपस्थित्योर्हतुत्वात् । तादृशशाब्दबोधस्य प्रकारतासंसर्गेण घटवादिवृत्तित्वाऽन्यथानुपपत्त्या तत्कारणीभूत शक्तिग्रहस्य प्रकारतासम्बन्धेन घटत्वादिवृत्तित्वसिद्धौ घटत्वादेः पटपदशक्यतावच्छेदकत्वं सिध्यति । घटादेः तादृशघटत्वादिधर्मवत्त्वेन पटपदापेक्षयाऽभिलाप्यत्व
=
-
-
मानने का प्रसंग होगा, क्योंकि पटपदवाच्यतावच्छेदक प्रमेयत्व धर्म रहता है। पटपद सर्व अर्थ का वाचक होने से सर अर्थ में रहने वाले प्रमेयत्व धर्म को पटपदवाच्यतावच्छेदक मानना ही होगा ।
अथ इति । यहाँ यह कहा जाय कि "पटपद का वाच्यतावच्छेदक प्रमेयत्व धर्म नहीं हो सकता है, क्योंकि पटपद से भी घट का प्रमेयत्वरूप से भान नहीं होता है । अतएव प्रमेयत्वावच्छित्र में पटपद की शक्ति की कल्पना नहीं की जा सकती, क्योंकि पदशक्तिज्ञान के कार्य पदार्थउपस्थिति और उसके कार्य शाब्दबोध में प्रकार समान = एक ही होता है । अर्थात् समानप्रकारक शक्तिज्ञान ही समानप्रकारक पदार्थोंपस्थिति का कारण होता है तथा समानप्रकारक पदार्थउपस्थिति ही समानप्रकारक शाब्दबोध का कारण बनती है । इसलिए जब प्रमेयत्वावच्छिन्न में पटपट की शक्ति ही नहीं है अर्थात् प्रमेयत्व पटपदशक्यतावच्छेदक ही नहीं है तब 'पटपदबोध्यतावच्छेदकीभूत प्रमेयत्व धर्म घट अर्थ में रहता है' यह कैसे कहा जा सकता है ? अतः पदबोध्यतावच्छेदकधर्मवत्त्व को अभिलाप्यत्व माना जा सकता है" ←--
किं ता इति । तो यह भी ठीक नहीं है। पटपद से घट का प्रमेयत्वरूप से बोध नहीं होने से प्रमेयत्व पटपदबोध्यतावच्छेदक न हो तो क्या हुआ ? प्रत्येक पद सब अर्थ के वाचक हैं। इस मत के अनुसार घट अर्थ का पटपद से घटत्वरूप से तो बोध हो सकता ही है । इसकी वजह पटपदवाच्यतावच्छेदक घटत्व धर्म हो सकता है । पटपदवाच्यतावच्छेदकताविशिष्ट घटत्व धर्म घट में दाने से घट अर्थ में पटपद की अपेक्षा अभिलाप्यत्व का प्रसंग अपरिहार्य ही होगा ।
५१६