SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ * विशेषावश्यकभाष्यसंवादः ** तावच्छेदकत्वं तन्तुत्व एव कल्पयतः तव का हानिः ? अत्र चार्थे 'करामाणे कडे' इति सिद्धान्तसारोऽपि प्रमाणमिति ध्येयम् । * जयलता है = निरूपकताया अवच्छेदकधर्मत्वं, तन्तुत्वे एव कल्पयतः तव नैयायिकस्य का हानिः ? अत्रेदं तत्त्वम् यथा परेण 'घटध्वंसे घटो नास्ती' तिप्रतीतिबलेन सिद्धो वटध्वंसाधिकरणको घटात्यन्ताभावी लाघवाद घटध्वंसात्मकाधिकरणस्वरूप एव न त्वतिरिक्तः परं 'घटध्वंसे घटो ध्वस्त' इत्यप्रत्ययात् घटध्वंसस्य घटात्यन्ताभावत्वेन रूपेण स्वात्मनि सत्त्वेऽपि घटध्वंसत्वेन तत्राऽसत्त्वमङ्गीक्रियते । तयोरैक्येन घटध्वंसस्य वटध्वंसत्वावच्छिन्नाधिकरणताया निरूपकत्वेऽपि तादृशनिरूपकताया अवच्छेदकत्वं घटात्यन्ताभावत्वे एव परेणीपगम्यते । तथैव प्रकृतेऽचरमतन्तुकपटस्य चरमतन्तुकपटाधिकरणीभूततन्त्वभिन्नत्वेनोभयोः पटत्वावच्छिन्नाधेयताया निरूपकत्वेऽपि तादृशनिरूपकताया अवच्छेदकता त्वया प्रतीतिबलेन तन्तुत्वे एव कल्पनीयेति न पटे पट इति प्रतीत्यापत्तिः, पटत्वस्य पदत्वावच्छिन्नाधेयतानिरूपकतानवच्छेदकत्वादिति । एतेन घटे घट' इतिप्रतीत्यापत्तिरपि ! प्रत्युक्ता, घटत्वावच्छिन्न- समवायसम्बन्धावच्छिन्नाया आधेयतायाया निरूपकता धर्मिनिष्ठा तदवच्छेदकत्वस्य घटत्वेऽनभ्युपगमात् विशिष्टसत्तायाः शुद्धसत्तानतिरिक्तत्वेऽपि सत्तावद्गुणनिष्ठाधिकरणतानिरूपकतायाः सत्तानिष्ठाया अवच्छेदकत्वस्य गुणकर्मान्यत्ववि| शिष्टसत्तावेऽनभ्युपगमवदिति भावनीयमवहितमानसैः । अत्र चार्थे = आरभ्यारम्भवादे, 'कयमाणे कडे' इति सिद्धान्तसारः नैश्वयिकसिद्धान्तरहस्यं अपि प्रमाणमिति । इदमत्राकूतम् प्रतिसमयं विभिन्नान्येव कार्यामि समारभ्यन्ते निष्पाद्यन्ते च स्वकारणकाल-निष्ठाकालयोरेकत्वात् । अतीतभविष्यत्क्रियाक्षणी तु न कार्यकारको विनष्टानुत्पन्नत्वेनाऽसत्त्वात् व्याघ्रशृङ्गवत् । तदसत्त्वेऽपि कार्योत्पत्तिरभ्युपगम्यते तर्हि क्रियारम्भात् प्रागपि कार्योत्पादः प्रसज्येत, क्रियाऽसत्त्वाऽविशेषात् । न च क्रियोपरमे कार्यं भवति न तु क्रियासद्भावे तस्याः स्वोत्पत्तावेव व्यग्रत्वादिति वाच्यम्, कारणीभूताभावप्रतियोगित्वेन क्रियोत्पादस्य प्रतिबन्धकत्वापत्तेः । न च तर्हि क्रियाकालस्प कथं दीर्घत्वं घटस्य प्रथमसमय एवोत्पन्नत्वादिति वाच्यम्, प्रतिसमयोत्पन्नानां परस्परविलक्षणस्वरूपाणां शिवक-स्थास - कोशकुशूलादिकार्यकोटीनां क्रियाकाल-निष्ठाकालयोरेकत्वेन प्रतिप्रारम्भसमयनिष्ठा प्राप्तानामेव दीर्घक्रियाकालोपलम्भात्, घटस्तु पर्यन्तसमय एवारभ्यते तत्रैव च निष्पद्यत इति न तस्य दीर्थो निर्वर्तनक्रियाकालः । तदुक्तं विशेषावश्यकभाष्ये -> 'पइसमउपण्णाणं परीप्परविलक्खाणं सुबहूणं । दीहो किरियाकालो जइ दीसड़ किं त्थ कुंभस्स ? || अभारंभ अन्नं किह दीसउ जह घडो पडारंभे । सिक्कादओ न कुंभो किह दीसए सो तदद्वार ? || अंते चित्र आरद्धो जइ दीसह तम्मि चेव को दोसो ? | अयं व संपड़ गए कह कीरउ कह व एस्सम्मि ? || पइसमयकज्जकोडीनिरवेक्खो घडगयाहिलासो सि । पइसमयकज्जकालं धूलमई ! घडम्मि लासि । ( वि. आ. भा. २३१५ / २३१८) इति । इदञ्च निश्वयनयप्रधानभावेन बोध्यम् । - ४३४ = = नगमनयानुगृहीतनिश्चयनयेन तु प्रतिसमयं शिवक-स्थासाद्यभिन्नत्वेन रूपेण घटो जायत एव । अत एव कुलालादीनामाघक्षणे 'अहं घटं करोमीत्याद्यनाहार्यस्वारसिकानुभवोऽपि सङ्गच्छते । अत एव क्रियावैयर्थ्यप्रसङ्गोऽपि न सावकाशः, विद्यमाने हि वस्तुनि पर्यायविशेषाधानद्वारेण कथञ्चित्करणक्रियादिसाफल्योपपत्तेः । सर्वथा असति तु नेदं सम्भवति । प्रस्थक<- तो यह नामुनासिब है, क्योंकि पटत्वावच्छिन्न पट में रही हुई आधेयता की निरूपकता का अवच्छेदक तन्तुत्व धर्म है, न कि पटत्व ऐसी कल्पना नैयायिक करे तो भी कोई दोष नैयायिक के मतानुसार नहीं हो सकती है । मतलब यह है कि तन्तु में पट रहता है । पट में तन्तु की आधेयता रहती है । तन्तु पटनिष्ठ आधेयता का निरूपक है । मगर तन्तु पेट का तन्तुत्वेन रूपेण आधार है। और पटत्वेन रूपेण पट तन्तु में आधेय है । अतः पट में पटत्वावच्छिन्न आधेयता आयेगी, जिसका निरूपक तन्तु या तन्तु से अभिन्न पट है, मगर तादृश आधेयता की निरूपकता का अवच्छेदक तन्तुत्व है, क्योंकि तन्तुत्वरूप से तन्तु पट का आधार है । 'पटे पटः ' इस प्रतीति में तो पटत्वावच्छिच पटनिष्ठ आधेयता की निरूपकता के अवच्छेदकविधया पटत्व का भान हो रहा है । अतः यह प्रतीति प्रामाणिक नहीं है, किन्तु 'तन्तौ पट: ' यह आधाराधेयभावाबगाही प्रतीति प्रामाणिक है, भले ही तन्तु और पट में कथञ्चिदभेद क्यों न हो ? पटत्व और तन्तुत्व तो एक नहीं है। जैसे नैयायिक मत में विशिष्टसत्ता शुद्ध सत्ता से अभिन्न होने पर भी गुणनिष्ठ अधिकरणता की निरूपकता की अवच्छेदकता सत्तात्व में है, न कि विशिष्टसत्तात्य (गुणकर्मान्यत्वविशिष्टसत्तात्व) में । इसी तरह यह भी संगत हो सकता है । आरभ्यआरम्भवाद में 'कयमाणे कडे' यानी क्रियमाण कार्य उसी समय कृत होता है यह सिद्धान्तसार भी प्रमाण = साक्षी है .
SR No.090487
Book TitleSyadvadarahasya Part 2
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDivya Darshan Trust
Publication Year
Total Pages370
LanguageHindi
ClassificationBook_Devnagari & Philosophy
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy