SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ * लघुस्याद्वादरहस्य-न्यायकणिकासंवादः प्रयोजक पृथिवीत्वाभावस्य तेजसीव तमस्यपि तवाऽपि दुरपह्नवत्वात् । नन्वेवं नीलवायिकारणतावच्छेदकपृथिवीत्वाभाववति तमसि नीलमाकस्मिकं स्यादिति चेत् ? न, उभयसाधारणजातिविशेषस्यैव नीलसमवायिकारणतावच्छेदकत्वात्, विजातीयानुष्णाशीतस्पर्शस्येव विजातीयनीलस्यैव पृथिवीत्वं जनकतावच्छेदकमित्यप्याहुः । * जयलता तवापि नैयायिकस्यापि । लघुस्याद्रादरहस्ये चात्र 'दाहपयोजक पृथिवीत्वाभावस्य जले इव तमस्यपि तानपलपनीयत्वात् (ल.स्या.रह. पू. १८) इत्येवं पाठः प्रकरणकारेण लिखितः । ननु सुवर्णवत्तमसि पृथिवीत्वाऽभाबोपगमे स्वर्णरूपवत् तमोरूपप्योपाधिकं स्यात् । एतेन कालिन्दीसलिलस्येव तमसः कालिमा न परोपधानात्, अनुपहितस्य कदाचिदपि स्वाभाविकरूपान्तशालिनः तमसोऽनुपलब्धेः, क्षेत्रसमुद्धृतस्येव कालिन्दीवारिणः स्वाभाविकस्वच्छ धवलस्येति प्रत्युक्तम्, स्वर्णपीतरूपस्याऽपि तद्वदेव निरुपाधिकत्वापत्तेः, तमस्यपि शुक्लेतररूपस्याकस्मिकत्वापत्तेश्वेत्याशयेन कश्चिच्छङ्कते नन्विति । नीलमाकस्मिकं स्यादिति, नीलत्वावच्छिन्नं प्रति पृथिवीत्वेन हेतुत्वातच्छून्ये तमसि नीलरूपोत्पादात्तदाकस्मिकत्वं प्रसज्येति शङ्काशयः । = ४०० तमपाकुर्वन्ति नैति । उभयसाधारणजातिविशेषस्यैवेति । पृथिवीतमः साधारणवैजात्यस्येति । एवकारेण पृथिवीमात्रवृत्तिजातिव्यवच्छेदः कृतः । नीलसमवायिकारणतावच्छेदकत्वादिति । समवायसम्बन्धावच्छिन्न-नीलत्वावच्छिन्नकार्यतानिरूपिततादात्म्यसम्बन्धावच्छिन्नकारणतावच्छेदकधर्मत्वादिति । ततश्च तमोनीलरूपोत्पत्तेः स्वसमवायिकारणतावच्छेदकावच्छिन्नसमवधानकालीनत्वान्नाऽऽकस्मिकत्वप्रसङ्गः, तमस्यपि तत्समवायिकारणतावच्छेदकजातेरङ्गीकारात् । 'तर्हि पृथिवीत्वं कस्य कारणतावच्छेदकं स्यात् ? इत्याशङ्कायां व्याचक्षते विजातीयानुष्णाशीतस्पर्शस्येवेति । वायुष्यावृत्तानुष्णाशीतस्पर्शस्येव, विजातीयनीलस्यैव = तमोव्यावृत्तनीलरूपस्य एवकारेणोभयसाधारणनीलरूपव्यवच्छेदः कृतः, पृथिवीत्वं जनकतावच्छेदकं = समबायिकारणतावच्छेदकम् । नीलविशेषे एवं पृथिवीत्तमसोः समवायिकारणत्वं अनुष्णाशीतस्पर्शविशेष इव वायुपृथिव्योः, अन्यथाऽनुष्णाशीतस्पर्शत्वावच्छिन्नं प्रति पृथिवीत्वेन समवायिकारणत्वादनुष्णाशीतस्पर्शवतो बायोः पृथिवीत्वापत्तेः । आहुरिति । वाचस्पतिमिश्रादय इति शेषः । तदुक्तं न्यायकणिकायां नापि पार्थिवं तमः, तद्गुणानां गन्धादीनामभावात् । ननु तथैव गन्धादिव्याप्तं कृष्णमपि रूपं तनिवृत्तावसदित्युक्तम्' । 'तत्किं पवनेऽनुष्णाशीतस्पर्शोऽसभेव ? गन्धादिव्याप्तस्य तस्य पृथिव्यामुपलब्धेः पवने च तेषामभावात्' । 'पाकजस्य स्पर्शस्य गन्धादिव्याप्तत्वम्, अयन्त्वपाकजः स्पर्शो वायवीय' इति चेत् ? न, इहापि साम्यात् । न हि तमसोऽपि कालिमा पाकजः । प्रत्यक्षच्चोभयत्राऽपि समानम् । तमः परमाणवश्च पार्थिवादिपरमाणव इव यणुकादिक्रमेण महान्तं तमोऽवयविनं पार्थिवमारभन्ते । तच्च रूपविशेषे सत्यनेकद्रव्यत्वान्महत्त्वाद्रा चाक्षुषमिति न तदुत्पत्त्यनवक्लुतिः । न च तस्य दिवाऽऽरम्भसम्भवः शाश्वितकविरोधे सति तेजसि । न जातु स्पर्शवगवन्मुद्गरादिधाते परिपंथिनि कुम्भारम्भाय भवन्ति मुदवयवाः विभ्रति वा कुम्भमारब्धमिति । अत एव हि दिवाऽपि निरस्ततमसि गिरिगुहायामारभन्त एब' (न्या. क.पू. ५५ ) इत्यादि । - नहीं होने से नैयायिक विज्ञान उसमें पृथ्वीत्व जाति का अभ्युपगम नहीं करते हैं उसी तरह अन्धकार में भी रूप का परावर्तन नहीं होने से पृथ्वीत्व के अभाव का नैयायिक महाशय अपलाप नहीं कर सकते । नन्वेवं इति । यहाँ यह शंका हो कि 'अन्धकार में नील रूप का इकरार और पृथ्वीव जाति का इन्कार करने पर वहाँ नील रूप की उत्पत्ति आकस्मिक हो जायेगी, क्योंकि नीलरूपत्वावच्छिन के प्रति पृथ्वीत्व जाति समवायिकारणतावच्छेदक है और अन्धकार में पृथ्वीत्व न होने पर नील रूप की उत्पत्ति का आप स्वीकार करते हैं । स्वसमवायिकारणतावच्छेदक धर्म से शून्य समवेत कार्य का उत्पन्न होना ही उसकी आकस्मिकता है । बैसा मानने पर तो पृथ्वीत्वशून्य अन्धकार की भाँति जलादि द्रव्य में भी नील रूप की उत्पत्ति होन लगेगी - तो यह भी नामुनासिब है, क्योंकि नील रूप का समवायिकारणतावच्छेदक पृथ्वीत्व नहीं है, किन्तु अन्धकार और पृथ्वी उभय में रहनेवाली जातिविशेष ही है । वह जातिविशेष तो अन्धकार में भी रहती है, इसलिए वहाँ नील रूप की उत्पत्ति हो तो भी कोई दोष नहीं है । स्वसमवायिकारणतावच्छेदकावच्छिन में ही नील रूप की उत्पत्ति होने से अन्धकारनीलरूप में आकस्मिकता का अवकाश नहीं है। दूसरी बात यह भी है कि
SR No.090487
Book TitleSyadvadarahasya Part 2
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDivya Darshan Trust
Publication Year
Total Pages370
LanguageHindi
ClassificationBook_Devnagari & Philosophy
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy