SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ । मतो मदम्यर्धनं स्वीकुरु । तयोक्तम्- प्रथमं नन्दीश्वरद्वीपं मां नय । तत्र गत्वा त्वदुदित श्रोष्यामि ते कथनं करिष्यामि च । तस्या एतद्वचनमाकर्ण्य मनसि स दध्यौ यमधुना मम करतलतो न मोक्ष्यते । इत्यवधार्य वेगेन विमानं नन्दीश्वरद्वीपे समानयत् । तत्रागता मदनरेखा प्रथमं चैत्यमध्ये सकलं शाश्वतविम्बं समर्चितवती । यथामति सचैत्यवन्दनस्तवन स्तुत्यादि विधाय वहिरुपविष्टं विद्याधरमुनिमभिवन्द्य स्वोचितस्थान के निषसाद । अथावधिज्ञानेन साधुर्बुबुधे यदियं शीलवती दुर्धियाऽनेनात्राऽनीताऽस्ति अतो मया तथोपदेष्टया दुर्कीः युधत । साधुपदिष्टवान् तं श्रुत्वा विद्यावरः प्रतिबोधमाप । तदनु सा तमपृच्छत्-भगवन् ! नम पुत्रं केन हेतुना पद्मरथो राजा निन्ये । तेन सह तस्य जन्मान्तरीयोऽस्ति कोऽपि संवन्धः १ साधुर्जगाद - वत्से ! पद्मरथो हि जन्मान्तरीयमोहात्तव पुत्रं गृहीत्वा पुत्रीचकार । इतश्च मदनरेखा पतिर्युगबाहुः पंचमे ब्रह्मदेवलोके समुत्पदे । तत्र च देव्यो जयजयारावं विदधत्यस्तमप्राक्षुः - भोः ! त्वया कीदृशं सुकृतं कृतं यदस्मिन् देवलोके समुत्पेदिषे । अथैतत्प्रसंगे स पूर्वमवजातवृत्तमशेषमवयुद्ध तां मदनरेखां निजत्रीं नंदीश्वरद्वीपे समागतामबोधत् । इति तदैव युगवार्देवस्तत्रागत्य प्रथमं मदन रेखामवन्दत, ततः साधुम् । अत्रावसरे विपरीतं विलोकयन् स विद्याधरोऽवक् भो देव ! स्वयैतदयुक्तं कथमाचरितं १ यद्गुरोः प्रथम मिय स्त्री वन्दिता । देवेनोक्तं- इयं मे धर्मगुरुरस्ति, अत एनामभिवन्द्य गुरुवन्दनामकार्षम् । अथ देवस्तामवदत् - अहं स्वया बहुपतोऽस्मि, नवोऽहं कथयामि किमप्यादिशतु भवती । साव-भो देव ! अन्यस्य कस्यापीच्छा मे नास्ति, किन्तु यत्र मे पुत्रोऽस्ति तत्र भां नय । अथ सा गुरुवंदनं विधाय तेनाऽप्ता विद्याधरस्याऽनुज्ञामयाचत । तदनु स देवस्तामुत्पाट्य तत्र मिथिलापुरे समागतस्तत्र च तामापृच्छय देवो निजस्थानमानात् । मदनरेखा व तत्र साध्वीसमीपे दीक्षां ललो, पंचमहाव्रतानि
SR No.090483
Book TitleSuktmuktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1997
Total Pages344
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy