________________
१६
सूक्तिमुक्तावली शार्दूलविक्रीडित छन्दः यः पुष्पैर्जिनमर्चति स्मितसुरखी लोचनैः सोऽर्च्यते यस्तं वन्दत एकशस्त्रिजगता सोऽहर्निशं वंद्यते । यस्तं स्तौति परत्र वयदमनस्तोमेन स स्तूयते यस्तं ध्यायति क्लृप्तकर्मनिधनः स ध्यायते योगिभिः ॥ १२ ॥
व्याख्या - यः पुरुषः पुष्पैः कृत्वा जिनं श्रीवीतरागं अर्चति पूजयति स पुरुषः स्मितसुरत्रीलोचनैः अयंते पूज्यते । स्मितानि विकसितानि यानि सुरखीणां देवाङ्गनानां लोचनानि नेत्राणि तैः देवलोके देवत्वेनोत्पन्नः सदेवांगनाभि विकसित नेत्रः अर्च्छते पूज्यते सरागं अवलोक्यते इत्यर्थः । पुनर्यः पुमान् एकशः एकवारं तं श्रीजिनदेवं वन्दते स अहर्निशं दिवारात्री त्रिजगता त्रिभुवनेन वंद्यते । यो जिनं वन्दते स त्रिजगद्वयो भवतीत्यर्थः । पुनर्यः पुमान् तं श्रीजिनं स्तीति स्तोत्र: वर्णयति स पुमान् परत्र परलोके वृत्रदमनस्तोमेन वृत्रदमनानां इन्द्राणां स्तोमेन समूहेन स्तूयते गुणस्तुत्या कृत्वा वयते । पुनः यः तं श्रीषिनं ध्यायति पिण्डस्थपदस्थरूपस्यरूपातीतभेदेहं दये ध्यानगोचरं करोति स पुमान् योगिभिः योगीश्वरैः महामुनिमियांयते ध्यानगोचरः क्रियते । कथंभूतः स क्लृप्तकर्म्मनिधनः क्लृप्तं रचितं कृतं अकर्मणां निधनं विनाशेो येन स क्लृप्तकर्मनिधनः सिद्धाबस्थां प्राप्तः इत्यर्थः । पूजाविधिस्तुतिः । अनेन विधिना श्रीजिनपूजा कार्या । अत्र श्रीसिंदूरप्रकराख्योपदेशशास्त्रे भीजिनपूजाधिकारं यावदय संबंधो व्याख्यातोऽस्ति ततोऽप्रे यः संबोधो भविष्यति स वर्तमानयोगेन ज्ञायते ॥ १२ ॥
1