SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ शारदास्तोत्रम् करबदरसदृशमखिलां भुवनतलां यत्प्रसादतः कवयः, पश्यन्ति सूक्ष्ममतयः सा जयतु सरस्वती देवी ।।६।। या नाकलोकपतिमानसराजहंसी, विद्याधरेश्वरगिहारविचारदेवी। माथिपः श्रवणभूषणचार (रत्न) बल्लो, सा वः श्रियं वितरताज्जिनवाक् प्रसूतिः ॥१०॥ इति श्रीपादपूज्यकृतं शारदास्तोत्रं समा 1 प्रज्ञा सा स्मरतीति या तव शिरस्तद्यन्नतं ते पदे । जन्माद: सफलं परं भवभिदो यत्राश्रिते ते पदे ॥ माङ्गल्यं च स यो रतस्तव मते गीः सैव या त्वा स्तुते । तेजा थे प्रणता जनाः क्रमयुगे देवाधिदेवस्य ते ॥१॥ सुश्रद्धा मम ते मते स्मृतिरपि त्वय्यर्चनं चापि ते। हस्ताबजलये कथाश्रुतिरतः कर्णोऽक्षि संप्रेक्षते ॥ सुस्तुत्यां व्यसनं शिरो नतिपरं सेवेद्दशी येन ते । तेजस्वी सुजनोऽहमेव सुकृती तेनंय तेजःपते ! ॥२॥ जन्मारण्य शिखी स्तवः स्मृतिरपि क्लेशाम्बुधे नौःपदे । भक्तानां परमो निधी प्रतिकृतीः सर्वार्थसिद्धिः परा ॥ वन्दीभूतवतोऽपि नोन्नतिहतिनन्तुश्च येषां मुदा । दातारो जयिनो भवन्तु वरदा देवेश्वारास्ते सदा ॥३॥
SR No.090476
Book TitleStotradisangrah
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherLadmal Jain
Publication Year
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy