________________
:
१
मकार्यं कर्तु ते करः कथमुदतिष्ठत् ? अहन्तु भ्रमादप्येवंविषस्य निरागसो जीवस्य हिंसां कदापि नैव करोमि । सपत्न्या एनेन वचपा रूपवती बहु चिखिदे, सहैवान यायो। शूरसेनेन प्रबोधितयोरपि तयोर्वह्नौ घृतप्रक्षेपेणेव द्वेषानल एघमान एवाऽसीदतस्ते कथमपि न शेमतुः ।
यतः-मृद्घटवत्सुखभेयो, दुःसन्धानश्च दुर्जनो भवति । सुजनस्तु कनकघदव - दुर्भेद्यञ्चाशु सन्धेयः ॥२१॥ interver मनस्यैव महान्पश्वात्तापो जायते स्म परं सकृदविचारपूर्णकार्ये जावे पुनस्तद कार्यकार्य कल्मषाज्जनः कदाचिदपि नो मुच्यते इति मनीषिभिः सदाचारवर्जितमविचारितं कर्म नैव क्रियते ।
यतः - दुःखं वरं चैव वरं च भैक्षं वरं च मौख्ये हि चरं रुजोऽपि ।
मृत्युः प्रवासोऽपि वरं नराणां परं सदाचारविलंधनं नो || २२ ॥
प्रतिकर्मणा हि नव्यकर्म सृज्यते, तस्मिथ भुज्यमाने पुनरन्यत शुभाशुभं कर्मापि बध्यते, तस्मात्सुधीभिर्यत्कर्तव्यं तत्सुविचार्यैव करणीयम् | avert करेण यद्यपीदं कार्यमत्यनुचितमभूत्, तथापि सा जिनमतेऽतीव श्रचीणाऽऽसीत्, अतस्तयाऽऽलोचनानिन्दा गर्हादिपश्वात्तापैस्तत्कर्म प्रक्षीणं कृतम्, श्रीवेदस्य च स्थाने पुंवेदः प्राप्तः । ततो यथासमयमायुषः श्रये यदा सा पत् मगमद, तदाऽभाधिपस्य राज्याचन्द्रावत्या उदरात्पुत्ररूपेणोदपद्यत । अत्र जन्मनि तस्व नाम चन्द्रकुमारो बभ्रुव, हे राजन् ! स चन्द्रकुमारः स्वयं भवानेवास्ति इत्यं हे राजन् ! अविधि सविधि वा कृतं सुकृतं कदापि निष्फलं न भवति । कोसीरक्षको यो रूपवर्ती तनाशनिवारणार्थं प्रत्यबोधयत् सदयाधर्मप्रभावत एव मृते भवतः सुमतिनामकः स एव सचित्रोऽभूत् ।
1