________________
सप्तोपधान
प्रास्ताविकनिवेदनम्
प्रास्ताविक-निवेदनम्
इह खल्वगाधे संसारेऽनाद्यनिर्वचनीयज्ञानप्रसूतदुर्वासनासंजुष्टस्वान्ता विविधदुःखभोगभूमयो मनुजा रागादिदोषसंप्लुष्टा अहर्निशं । क्लिश्यमाना विविधयोनिषु च जन्मानि लभमाना दरीदृश्यन्ते । तेषां तपसैवाघप्रणाशः, पापप्रणाशे च सति द्रागेव भवति निःश्रेयसावाप्तिरिति न तन्त्र कोऽपि संदेहावकाशः ।
सर्वेषु तपःसु च उपधानतपः सर्वथाऽसाधारणं तप इति प्रसिद्धिः । उपधीयन्ते सुगुरमुखान्नवकारमन्त्रादिसूत्राणि यथाविधि धार्यन्तेगृह्यन्तेऽनेन तपसेति तत् उपधान-तप इति व्याहियते ।
तोपधानतपस्तावत् सप्तविधम्-(१) पञ्चमङ्गल-महाश्रुतस्कन्धम् , (२) इरियावहिवाश्रुतस्कन्धम् , (३) भाषारिहन्तस्तवम्, (४) ठदेणारिहन्तस्तवम्, (५) नामारिहन्तस्तवम् , (६) दुव्वारिहन्तस्तवम् , (७) सिद्धस्तव श्रुतस्कन्धम् इति । एतानि सप्त तपासि यथाविध्यनुष्टिते सति उपधानवाही जनो यथाक्रम मोक्षपदमवानोति । ___पूर्वस्मिन्समये उपधानतपोवाहिनामाचारादिव्यवस्था परमोत्कृष्टविधिसम्पन्ना प्रकारान्तरेण निर्धारिता चासीत्, परं देशकालादिक समालोच्य करुणावरुणालयैराचार्यैः स क्रमो नितरां सुगमो यथा भवेत्तथा पश्चात् परिवर्तितः । साम्प्रतीनप्रवृत्त्यनुगुणं एकान्तरोपवासमेकाशन
Amita....
.
..
.