________________
॥ ओम् ॥ श्रीमद्विजयानन्दसूरिपादपत्रेभ्यो नमः । श्रीसम्यक्त्वसप्ततिटीकोपोधातः ।
9
%
HEIR विदितमेवामलमेधाधरीकृतवाचस्पतिमतीनां, यदुत, धर्मोपदेशसंतारितजनसमाजेन, मुनिमहाराजाधिराजेन, शुचिरु
चिमहामणिप्रभापावित्र्यभृचारुविशालसालत्रयमध्यस्थकल कलधौतसिंहासनासीनेन प्रचलदमलकुण्डलमण्डितगण्डस्थलप्रहसाखंडलसुरमण्डलीसेव्योल्ललत्तारभामंडलज्योतिरुयोतिताखंडदिग्मंडलेन, भगवता त्रैलोक्यनाथेन, सम्यगेतत् ।
प्रोक्तं, यत् खलु-नारकतिर्यग्मनुजदेवगतिरूपेऽस्मिन् संसारे विज्ञातभवस्वरूपसंजातनिर्वेदानां भव्यात्मनामखिलकुशलाऽनुबंधी धर्म एव सारः, स च विशिष्टतरप्रशस्यप्रयत्नसाध्यः । तत्प्रयत्नश्च नातिरिच्यते कृत्याकृत्यगम्यागम्यहेयोरादेयादियाथातथ्यवस्तुखरूपदर्शनच्छेकात् सद्विवेकादिति । विवेकोऽपि च विज्ञानसंतानविज्ञाताखिलभूतभविष्यद्भाविपदार्थसार्थसंतानानां विलसदमलनिशातात्मशक्तिसमुच्छिन्नामिष्वंगवल्लिवितानानां संसारसागरांतःपातिप्राणिप्राणत्राणैकध्यानानां, विहिताऽतुलतपः प्रयासकृतान्त