________________
.
BARSHANGA
सारोद्धारसूत्रवृत्त्योः षट्त्रिंशदुत्तरशततमद्वारे ( २५५ पत्रे ) स्वकायपरकायशस्त्रोपहतं प्रासुकं जलं साधूनां ग्रहणोचित प्रत्यपादि, तथाहि
"उसिणोदगं तिदंड-कलिअं फासुअजलं च जइ कप्पी नवरि गिलाणाइकए, पहरतिगोवरिवि धरिम ॥ ८८१ ।। जायइ सचित्तया से, गिम्हम्मि पहरपंचगस्सुवरि ।। चउपहरुवार ससिरे, वासासु पुणो तिपहरुवरि ॥८८२॥
त्रिभिदण्डैः-उत्कालैः उत्कलितं-आवृत्तं यदुष्णोदकं, तथा यत् प्रासुकं-स्वकायपरकायशस्त्रोपहतत्वेनाऽचित्तीभूतं जलं तदेव यतीनां कल्प्य-ग्रहीतुं उचितं, इह किल प्रथमे दण्डे जायमाने कश्चित् परिणमति कश्चिन्न इति मिश्रः १, द्वितीये प्रभूतः परिणमति स्तोकोऽवतिष्ठते २, तृतीये तु सर्वोऽपि अपकायोऽचित्ती भवतीति दण्डत्रयग्रहणं, इदं च सर्वमपि प्रहरत्रयमध्ये एव उपभोक्तव्यं, प्रहरत्रयादव पुनः कालातिक्रान्तदोषसम्भवेन उपभोगानहत्वात् न धारणीयं, नवरं केवलं ग्लानादिकृते ग्लानवृद्धानां अर्थाय प्रहरत्रिकादपि ऊई धर्तव्यं,-॥८८१॥ 'जायई' इत्यादि गाहा । जायते भवति सचित्तता 'से'त्ति, तस्य उष्णोदकस्य प्रासुकजलस्य वा ग्लानाद्यर्थ धृतस्य 'ग्रीष्मे' उष्णकाले प्रहरपञ्चकस्योपरि-प्रहरपञ्चकादर्दू कालस्याऽतिरूक्षत्वात् चिरेण एवं जीवसंसक्किसद्भावात् , तथा शिशिरे-शीतकाले कालस्य स्निग्धत्वात् प्रहरचतुष्टयादूर्व सचित्तता भवति, “वर्षासु" वर्षाकाले पुनः कालस्याऽतिस्निग्धत्वात् प्रासुकीभूतमपि जलं भूयः प्रहरत्रयादूद्ध सचित्तीभवति, तदूर्द्धमपि यदि ध्रियते तदा क्षारः प्रक्षेपणीयः-सर्जिकादिकं क्षेप्तव्यं, येन भूयः सचित्तं न भवतीति ॥ ८८२॥ इति ॥४॥
89