SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ ******** सामाचा रीशतकम् । ॥ १९० ॥ एवं पश्चिमदिशि-यः प्रतीच्या दिशो नाथो, वरुणो मकरस्थितः । संघस्य शान्तये सोsस्तु, बलिपूजां प्रतीच्छतु ॥ ५ ॥ एवं वायव्य दिशि- हरिणो वाहनं यस्य, वायव्याधिपतिः स्मरः । संघस्य शान्तये सोऽस्तु, बलिपूजां प्रतीच्छतु ॥ ६ ॥ एवमुचरदिशि-निधाननवकारूढ, उत्तरस्या दिशः प्रभुः । संघस्य शान्तये सोऽस्तु, बलिपूजां प्रतीच्छतु ॥ ७ ॥ एवमीशानदिनि सिटे होने शानो विदितः प्रभुः । संघस्य शान्तये सोsस्तु, बलिपूजां प्रतीच्छतु ॥ ८ ॥ एवमधोदिशि-पातालाधिपतिर्योऽस्ति, सर्वदा पद्मवाहनः । संघस्य शान्तये सोऽस्तु, बलिपूजां प्रतीच्छतु ॥ ९ ॥ एवमूर्ध्वदिशि- ब्रह्मलोक विभुर्योऽस्तु, राजहंससमाश्रितः । संघस्य शान्तये सोsस्तु, बलिपूजां प्रतीच्छतु ॥ १० ॥ एवं दशस्वपि दिक्षु जलधारादानेन स्वस्वदिक्स्वामि श्लोकप्रतिपादेन च बलिः प्रक्षिप्यते, प्रथमं प्रान्ते च श्लोकादौ नमोऽर्हत् सिद्धेति कथ्यते । एतस्मिन् विधौ कृतेऽत्र प्रस्तावे यदि संघसामुदायिकः शान्तिः तदा देवगृहसत्कः कलशो गृह्यते, यदि एकः कोऽपि कारयति तदा शान्तिकारकगृहात् चतुरश्चलसधवसुन्दरी शिरसि आरोग्य बहुगीतगानता नमानदानपाचजन्यशब्दादिवादित्रे वाद्यमाने अन्तर्धवलितः पञ्चरलोपेतः मुखवेष्टितमुहलीसूत्र उपरि समाच्छादितकसुम्भलवस्त्रः कलशः समानीय पूर्वकृतस्वस्तिकोपरि स्थाप्यते कलशमध्ये श्रीशान्तिनाथप्रतिमा निश्चला सुसज्जिता कृत्वा मोच्या, कलशोपरिष्टात् ऊर्ध्व तणी चतुष्कमध्ये उपर्युपरि प्रोतखाजिलीपक्वान्नं बध्यते, वणीमध्यतो महुलीदवरको लम्बमानस्तथा बध्यते यथा कलशोपरि मुखमध्यभागे तिष्ठति, तत्र च संघसमुदायको महुलीकन्दुको बध्यते, कलशस्य पुष्पचन्दनपूजा कार्या । गुरुरपि वासक्षेपं करोति । ततः कलशामे कुसुमाञ्जलि १ लवणपानीय २ परिधापनिका ३ आरात्रिका ४ मङ्गलप्रदीपाः ५ 280 शान्तिकविधिर धिकार १०० ॥ १९० ॥
SR No.090448
Book TitleSamacharishatakam
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages393
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy