SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ सामाचा शतकम् । ॥ १८९ ॥ विषयेऽपि बहु विमर्शनीयं यतो दैवसिकावश्यकमध्ये सामान्यतो वैयावृत्यकरान् विमुच्य केवल श्रुतदेवतादेः कायोत्सर्गकरणं, पाक्षिकादौ तु भवनदेव्याः, दीक्षादौ तु शासनदेव्यादीनामपि, अलं प्रसंगेन, तत्त्वं तु परमर्षयो विदन्ति ॥ ९८ ॥ ॥ इति श्रुतदेवता दिकायोत्सर्गस्थापनाधिकारः ॥ ९८ ॥ ननु - श्री खरतरगच्छीय साधुसाध्व्यः सुविहितनामविभ्राणा अपि मृत्तिकाघटकेन पानीयं विहरन्ति तत्र रक्षन्ति तत् किं तत्र जीवसंसतिसद्भावात् ? उच्यते, श्रीस्थानाङ्गे ( १३८ पत्रे ) तृतीयस्थाने तृतीयोदेशके पानीयघटस्य साधुसाध्वीनां उक्तत्वात् तथाहि "कप्पइ निग्गंथाण वा निग्गंधीण वा तओ पायाई धारितते वा परिहरित्तते वा तं० लाउयपादे वा दारुपादे वा मट्टियापादे बा" ( सूत्रं १७० ) व्याख्या - अलाबुपात्रकं - तुम्बकं दारुपानं - काष्ठमयं मृत्तिकापात्रं - मृण्मयं शराबवाटिकादि, शेषं सुगमं, अत्र वाघटिकाशब्देन पानीयलघुघटिकाः प्रोक्ताः । जीवोत्पत्तिपर्यन्तं तु यतनावन्तः साधवो रक्षन्त्येव न कथंचित् रक्षणे तु तत्रोत्पन्नपूतरकजीवपानीयं ग्रन्थोक्तविधिना गृहस्थादिभ्यः प्रयच्छन्ति, प्रत्युत काष्ठलोष्टिकादिधारणे तु क्रीतदोषस्य साक्षात् दृश्यमानत्वात् बहुमूलत्वाच्च । न तद्धारणनियमो विचार्यमाणः संयमसुखावहो मृत्तिकापानीयलघुघटिकाः तु अल्पमूल्यत्वात् सुखेन शुद्धत्वेन मिलनत्वात् संयमोपष्टम्भकारिणो भवतीति युक्तमेव तद्धारणम् ॥ ९९ ॥ ॥ इति मृत्तिकापानीयघटिकारक्षणाधिकारः ॥ ९९ ॥ ननु - संधादीनां विघ्नोपद्रवशात्यै शान्तिविधिः क्रियते स शान्तिविधिः कः ?, कुत्र प्रतिपादितश्च ? उच्यते स विधिः कोऽपि प्राक्तनलिखितानुसारेण, कोऽपि च महेवादी [उत्सवे ] विधिज्ञश्राचकक्रियमाणानुक्रमस्य स्वयं दर्शनेन च लिख्यते, तथाहि 278 मृत्तिकापानीय घटिकारक्षणा धिकारः ९९ शान्तिक विधिर धिकारश्व १०० ॥ १८९ ॥
SR No.090448
Book TitleSamacharishatakam
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages393
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy