SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ तत्र भवति, केवलं शयासंस्तारकादिविधिः एवात्राऽधिकः । तन्मूलस्य शयनविधेः पौषधे एव उक्तत्वादिति । 'पुढं जाहे वह वि' इत्याद्योघ नियुक्तिभाष्येण कल्पत्रयस्य प्रावरणमेव अपवादिकं साधोः पकं । नतु ग्रहणं, यतः औषिको पकरणान्तर्गतत्वेन उत्सर्गेण साधुः कल्पत्रयं गृह्णाति यदुक्तं चतुर्दशउपकरण संख्यायां, 'तिन्नेव य पच्छादगा' इति | केवलमिदं संवर्त्तितमेव सत् उत्सर्गेण वामस्कन्धेन वहति शीतवातादिकारणेन पुनः प्रावृणोति, अत्र तु 'गिण्हई गुरुव दिने' इत्यादिना कल्पभाष्येण कल्पसप्तकस्य ग्रहणमेव अपवादिकं उक्तं, ततो यतिः उत्सर्गेण तिस्रः प्रच्छादकाः संगृह्णाति अपवादतस्तु सप्त प्रावृणोति च, तिस्रोऽपि सष्ठाऽपि अपवादतः एवेति न पूर्वापरविरोध इत्यर्थः पुनरत्राऽर्थे विस्तरार्थिना युगप्रधान श्री जिनदत्तसूरिविरचितं सन्देहदोलावलीसूत्रं तद्वृत्तिश्च द्रष्टव्ये इति साधूनां उत्सर्गे वस्त्राणामेकं, अपवादे त्र्यं, अत्यन्तापवादे सप्तकं । कृतसामायिकश्राद्धानां उत्सर्गे एक, अपवादे त्र्यं श्राविकाणां उत्सर्गे त्रयं अपवादे षटूं इत्यधिकारः ॥ ९६ ॥ ननु - "गुरुविरहंमि अठवणा” इति वचनप्रामाण्यात् काष्ठादिस्थापना स्थाप्यते तत् युक्तं, परं सा स्थापना गुरोः वा अर्हतो वा यदि गुरोः तदा प्रतिक्रमणादौ क्रियमाणे शक्रस्तवपाठः तदग्रे न युक्तः, अथ यदि अर्हतः स्थापना तदा 'गुरुविरमि अ ठवणा' इति वाक्यं हृदि निधाय तत् स्थापनं असंगतं इव स्यात्, ततः किं तत्त्वं १ तत्रोच्यते-- एका काष्ठादिस्थापना पञ्चानामपि परमेष्ठिनां अस्ति, अत्र पञ्चाऽपि परमेष्ठिनः स्थापिताः सन्ति । अथ कश्चित् प्रेरयिष्यति श्राविकाभिः गुरूणां संघट्टो रक्षणीयः, तर्हि कथं आर्थिकाः स्थापनाचार्य स्थापयन्ति ? अथ निजमद्दत्तरां कल्प्यते इति चेत् तत्र स्थापनाचार्य 269
SR No.090448
Book TitleSamacharishatakam
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages393
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy