________________
श्री दानादि
कुलकवृत्ति:
।।७६ ।
बाणं योजयितुमने कानुपायान् कुर्वति । परं केनापि तदारोपयितुं न शक्यते । ततः कृष्णेनोत्थाय टंकारनादवत्ररितसकलसभाजनं वाणं धनुष्यारोपितं । ततः कंससंकेतितचाणूरमुष्टिमल्लो कृष्णेन सह योऽधुं समागतौ । तूर्ण कृष्णेन चाणूरो मारितो बलभद्रेण च मुष्टिमल्लो व्यापादितः । ततः क्रुद्रः कंसः स्वयं कृष्णं प्रति धावितः । कृष्णस्तमपि काकपक्षं गृहीत्वा सद्यो व्यापादयामास । अथ समुद्रविजयेनोसेनं काष्ठपंजरान्निष्कास्य राज्ये स्थापितस्तेन च सत्यभामा कृष्णाय परिणायिता । अथ कंसवधानंतरं जीवयशा जरासंधपार्श्वे समागत्य तद्वृत्तान्तं कथयामास । तदा क्रुद्धेन जरासंधेन रामुद्रविजयं प्रति दूतं प्रेषयित्वा कृष्णलभद्रो मार्गिती । समुद्रविजयेन चितितं तस्य दुष्टम्य पुत्री कथं दीयेते ? ततस्तेन पृप्टेन नैमित्तिकेनोक्त- युष्माभिर्न भेतव्यं । कृष्णस्त्वं त्रिखंडभोक्ता भविष्यति । पश्चिमदिशि समुद्रोपकंठे श्रीकृष्णभार्या सत्यभामा यत्र पुत्रयुगलं प्रसवेत्तत्र नगरं कृत्वा स्थेयं । तत्र युष्माकं महानुदयो भविष्यति । अथ सर्वेऽपि यादवा उग्रसेनादयश्च निजसैन्ययुताः क्रमेण विध्याचलपार्श्वे समागताः । अथ कालमहाकालप्रमुखाः पंचशतजरासंधपत्रा अग्निप्रविष्टानामपि यादवानां मारणाय नियमं कृत्वा तथ समागताः । इतो यादवकुलत्रेण्याः मार्गे प्रपंचं कृत्वा दावानलं त्रिकुव्यं वृद्धस्वोरूपं कृत्वा रोदितुं प्रारब्धं । तदा तत्रागतकालमहाकालाभ्यां तस्यै पृष्टं हे वृद्धे ! त्वं कथं रोदिषि ? तयोक्तं- युष्मद्धयासर्वेऽपि यादवा अत्र प्रज्ज्वलिता इत्युक्त्वा तया देवमाययाऽधंज्वलिते कृष्णवलभद्रशरीरे ताभ्यां दर्शिते । तद् दृष्ट्वा तैः पंचशतैरपि स्वनियमपालनाय यादवान् निष्कासवितुमग्नौ प्रविटं । तान् सर्वान् ज्वलितान् दृष्ट्वा
शील कुलकं
तमिनाथ चरित्रं
।। ३६ ।।