________________
॥२८॥
वं खेदं मा कुरु ? भविष्यच्चनुर्विशत्यां त्वं मादृश एव प्रथमतीर्थकरो भविष्यसि । तत् श्रुत्वा संतुष्टो नृपो निजस्थाने जगाम, प्रभरप्यन्यत्र विहार ।। इति श्रीभावकूल के दर्दराकदेवकथा ।। विरयाविरयसहोअर, उदगास भरेण भरियसरियाए । भणियाए सावियाए, बिन्नो फरगुत्ति भाववसा ॥१६॥
व्याख्या-विरताऽविरतौ द्वौ भ्रातगैः तयोरेको भ्राता मुनिद्वितोयश्च श्रावकस्तो हावप्यूहिश्य श्राविकाभिर्भणितया उदकपूरेण भरितयापि नद्या भाववशान्मार्गो दत्त इति गाथार्थः ।।१६।। भावार्थस्तु कथानकगम्यः स चेत्थं
जयपुरनगरे सूराभिधो राजा बभूव, तस्य लघुभ्राता च सोमो युवराजपदवीं भुनक्ति । अर्थकदा तर श्रीसुव्रताचार्यः समागतास्तदा राजा युवराजादिपरिवारयुतो महोत्सवपूर्वकं तत्र वंदितुं गतः । गुरून् च नमस्कृत्य तेन भवभयविनाशिनीति देशना श्रुता । भो भव्या ! इह क्रोधोगदावानलभस्मीभूतक्षमारण्ये मानमहोत्तुंगगिरिखवितमाईवसरित्प्रवाहे मायाविषवल्लीमालाच्छादितसरलतालतामंडपे लोभोच्छलि तोदधि वेलाप्लावितौदार्यकल्पतरुनिकुरंबके संसारे कपटपाटवोपेतमोहलंटाकलुटितात्मभावधना घना जना: क्वापि निवृत्तिस्थानमलभमाना महादुःखदारिद्रयोपेतावस्थायां स्थिता अनादिकालोद्भताऽज्ञानतमसांधीभूयेतस्ततो भ्रमंतो घोरांधकारभूतनरकाबटे पतंति ।
ततो विवेकिभिर्जनेनिजनयनपाटवकृते सर्वदा सूगरुधर्मोपदेशरूपांजनस्योपयोगः कर्तव्यो येनांजनेन निर्मलीभूतनयना घोरावटादीन दुरे त्यक्त्वा सारासारभावरूपमार्ग पश्यंतो सद्धमवलंबनेन क्षरकणिसमारूढा जना